Vita:Szvátmáráma/Hatha-jóga-pradípiká
A Wikiforrásból
[szerkesztés] sanskrit1
|| २|| द्वितीयोपदेशः अथासने दृधे योगी वशी हित- मिताशनः | गुरूपदिष्ट- मार्गेण प्राणायामान्समभ्यसेत् || १|| चले वाते चलं चित्तं निश्चले निश्चलं भवेत्|| योगी स्थाणुत्वमाप्नोति ततो वायुं निरोधयेत् || २|| यावद्वायुः स्थितो देहे तावज्जीवनमुच्यते | मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् || ३|| मलाकलासु नाडीषु मारुतो नैव मध्यगः | कथं स्यादुन्मनीभावः कार्य- सिद्धिः कथं भवेत् || ४|| शुद्धमेति यदा सर्वं नाडी- चक्रं मलाकुलम् | तदैव जायते योगी प्राण- संग्रहणे क्षमः || ५|| प्राणायामं ततः कुर्यान्नित्यं सात्त्विकया धिया | यथा सुषुम्णा- नाडीस्था मलाः शुद्धिं प्रयान्ति च || ६|| बद्ध- पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् | धारयित्वा यथा- शक्ति भूयः सूर्येण रेचयेत् || ७|| प्राणं सूर्येण चाकृष्य पूरयेदुदरं शनैः | विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् || ८|| येन त्यजेत्तेन पीत्वा धारयेदतिरोधतः | रेचयेच्च ततोऽन्येन शनैरेव न वेगतः || ९|| प्राणं चेदिडया पिबेन्नियमितं भूयोऽन्यथा रेचयेत् पीत्वा पिङ्गलया समीरणमथो बद्ध्वा त्यजेद्वामया | सूर्य- चन्द्रमसोरनेन विधिनाभ्यासं सदा तन्वतां शुद्धा नाडि- गणा भवन्ति यमिनां मास- त्रयादूर्ध्वतः || १०|| प्रातर्मध्यन्दिने सायमर्ध- रात्रे च कुम्भकान् | शनैरशीति- पर्यन्तं चतुर्वारं समभ्यसेत् || ११|| कनीयसि भवेद्स्वेद कम्पो भवति मध्यमे | उत्तमे स्थानमाप्नोति ततो वायुं निबन्धयेत् || १२|| जलेन श्रम- जातेन गात्र- मर्दनमाचरेत् | दृढता लघुता चैव तेन गात्रस्य जायते || १३|| अभ्यास- काले प्रथमे शस्तं क्षीराज्य- भोजनम् | ततोऽभ्यासे दृढीभूते न तादृङ्- नियम- ग्रहः || १४|| यथा सिंहो गजो व्याघ्रो भवेद्वश्यः शनैः शनैः | तथैव सेवितो वायुरन्यथा हन्ति साधकम् || १५|| प्राणायामेन युक्तेन सर्व- रोग- क्षयो भवेत् | अयुक्ताभ्यास- योगेन सर्व- रोग- समुद्गमः || १६|| हिक्का श्वासश्च कासश्च शिरः- कर्णाक्षि- वेदनाः | भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः || १७|| युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं च पूरयेत् | युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात् || १८|| यदा तु नाडी- शुद्धिः स्यात्तथा चिह्नानि बाह्यतः | कायस्य कृशता कान्तिस्तदा जायते निश्चितम् || १९|| यथेष्टं धारणं वायोरनलस्य प्रदीपनम् | नादाभिव्यक्तिरारोग्यं जायते नाडि- शोधनात् || २०|| मेद- श्लेष्माधिकः पूर्वं षट्- कर्माणि समाचरेत् | अन्यस्तु नाचरेत्तानि दोषाणां समभावतः || २१|| धौतिर्बस्तिस्तथा नेतिस्त्राटकं नौलिकं तथा | कपाल- भातिश्चैतानि षट्- कर्माणि प्रचक्षते || २२|| कर्म षट्कमिदं गोप्यं घट- शोधन- कारकम् | विचित्र- गुण- सन्धाय पूज्यते योगि- पुङ्गवैः || २३|| तत्र धौतिः चतुर्- अङ्गुल- विस्तारं हस्त- पञ्च- दशायतम् | गुरूपदिष्ट- मार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् | पुनः प्रत्याहरेच्चैतदुदितं धौति- कर्म तत् || २४|| कास- श्वास- प्लीह- कुष्ठं कफरोगाश्च विंशतिः | धौति- कर्म- प्रभावेण प्रयान्त्येव न संशयः || २५|| अथ बस्तिः नाभि- दघ्न- जले पायौ न्यस्त- नालोत्कटासनः | आधाराकुञ्चनं कुर्यात्क्षालनं बस्ति- कर्म तत् || २६|| गुल्म- प्लीहोदरं चापि वात- पित्त- कफोद्भवाः | बस्ति- कर्म- प्रभावेण क्षीयन्ते सकलामयाः || २७|| धान्त्वद्रियान्तः- करण- प्रसादं दधाच्च कान्तिं दहन- प्रदीप्तम् | अशेष- दोषोपचयं निहन्याद् अभ्यस्यमानं जल- बस्ति- कर्म || २८|| अथ नेतिः सूत्रं वितस्ति- सुस्निग्धं नासानाले प्रवेशयेत् | मुखान्निर्गमयेच्चैषा नेतिः सिद्धैर्निगद्यते || २९|| कपाल- शोधिनी चैव दिव्य- दृष्टि- प्रदायिनी | जत्रूर्ध्व- जात- रोगौघं नेतिराशु निहन्ति च || ३०|| अथ त्राटकम् निरीक्षेन्निश्चल- दृशा सूक्ष्म- लक्ष्यं समाहितः | अश्रु- सम्पात- पर्यन्तमाचार्यैस्त्राटकं स्मृतम् || ३१|| मोचनं नेत्र- रोगाणां तन्दाद्रीणां कपाटकम् | यत्नतस्त्राटकं गोप्यं यथा हाटक- पेटकम् || ३२|| अथ नौलिः अमन्दावर्त- वेगेन तुन्दं सव्यापसव्यतः | नतांसो भ्रामयेदेषा नौलिः सिद्धैः प्रशस्यते || ३३|| मन्दाग्नि- सन्दीपन- पाचनादि- सन्धापिकानन्द- करी सदैव | अशेष- दोष- मय- शोषणी च हठ- क्रिया मौलिरियं च नौलिः || ३४|| अथ कपालभातिः भस्त्रावल्लोह- कारस्य रेच- पूरौ ससम्भ्रमौ | कपालभातिर्विख्याता कफ- दोष- विशोषणी || ३५|| षट्- कर्म- निर्गत- स्थौल्य- कफ- दोष- मलादिकः | प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति || ३६|| प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति | आचार्याणां तु केषांचिदन्यत्कर्म न संमतम् || ३७|| अथ गज- करणी उदर- गत- पदार्थमुद्वमन्ति पवनमपानमुदीर्य कण्ठ- नाले | क्रम- परिचय- वश्य- नाडि- चक्रा गज- करणीति निगद्यते हठज्ञैः || ३८|| ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यास- तत्पराः | अभूवन्नन्तक- भ्यात्तस्मात्पवनमभ्यसेत् || ३९|| यावद्बद्धो मरुद्- देशे यावच्चित्तं निराकुलम् | यावद्दृष्टिर्भ्रुवोर्मध्ये तावत्काल- भयं कुतः || ४०|| विधिवत्प्राण- संयामैर्नाडी- चक्रे विशोधिते | सुषुम्णा- वदनं भित्त्वा सुखाद्विशति मारुतः || ४१|| अथ मनोन्मनी मारुते मध्य- संचारे मनः- स्थैर्यं प्रजायते | यो मनः- सुस्थिरी- भावः सैवावस्था मनोन्मनी || ४२|| तत्- सिद्धये विधानज्ञाश्चित्रान्कुर्वन्ति कुम्भकान् | विचित्र कुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात् || ४३|| अथ कुम्भक- भेदाः सूर्य- भेदनमुज्जायी सीत्कारी शीतली तथा | भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्यष्ट- कुम्भकाः || ४४|| पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः | कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः || ४५|| अधस्तात्कुञ्चनेनाशु कण्ठ- सङ्कोचने कृते | मध्ये पश्चिम- तानेन स्यात्प्राणो ब्रह्म- नाडिगः || ४६|| आपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् | योगी जरा- विमुक्तः सन्षोडशाब्द- वया भवेत् || ४७|| अथ सूर्य- भेदनम् आसने सुखदे योगी बद्ध्वा चैवासनं ततः | दक्ष- नाड्या समाकृष्य बहिःस्थं पवनं शनैः || ४८|| आकेशादानखाग्राच्च निरोधावधि कुम्भयेत् | ततः शनैः सव्य- नाड्या रेचयेत्पवनं शनैः || ४९|| कपाल- शोधनं वात- दोष- घ्नं कृमि- दोष- हृत् | पुनः पुनरिदं कार्यं सूर्य- भेदनमुत्तमम् || ५०|| अथ उज्जायी मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः | यथा लगति कण्ठात्तु हृदयावधि स- स्वनम् || ५१|| पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया तथा | श्लेष्म- दोष- हरं कण्ठे देहानल- विवर्धनम् || ५२|| नाडी- जलोदराधातु- गत- दोष- विनाशनम् | गच्छता तिष्ठता कार्यमुज्जाय्याख्यं तु कुम्भकम् || ५३|| अथ सीत्कारी सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् | एवमभ्यास- योगेन काम- देवो द्वितीयकः || ५४|| योगिनी चक्र- संमान्यः सृष्टि- संहार- कारकः | न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते || ५५|| भवेत्सत्त्वं च देहस्य सर्वोपद्रव- वर्जितः | अनेन विधिना सत्यं योगीन्द्रो भूमि- मण्डले || ५६|| अथ शीतली जिह्वया वायुमाकृष्य पूर्ववत्कुम्भ- साधनम् | शनकैर्घ्राण- रन्ध्राभ्यां रेचयेत्पवनं सुधीः || ५७|| गुल्म- प्लीहादिकान्रोगान्ज्वरं पित्तं क्षुधां तृषाम् | विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि || ५८|| अथ भस्त्रिका ऊर्वोरुपरि संस्थाप्य शुभे पाद- तले उभे | पद्मासनं भवेदेतत्सर्व- पाप- प्रणाशनम् || ५९|| सम्यक्पद्मासनं बद्ध्वा सम- ग्रीवोदरः सुधीः | मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत् || ६०|| यथा लगति हृत्- कण्ठे कपालावधि स- स्वनम् | वेगेन पूरयेच्चापि हृत्- पद्मावधि मारुतम् || ६१|| पुनर्विरेचयेत्तद्वत्पूरयेच्च पुनः पुनः | यथैव लोहकारेण भस्त्रा वेगेन चाल्यते || ६२|| तथैव स्व- शरीर- स्थं चालयेत्पवनं धिया | यदा श्रमो भवेद्देहे तदा सूर्येण पूरयेत् || ६३|| यथोदरं भवेत्पूर्णमनिलेन तथा लघु | धारयेन्नासिकां मध्या- तर्जनीभ्यां विना दृढम् || ६४|| विधिवत्कुम्भकं कृत्वा रेचयेदिडयानिलम् | वात- पित्त- श्लेष्म- हरं शरीराग्नि- विवर्धनम् || ६५|| कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् | ब्रह्म- नाडी- मुखे संस्थ- कफाद्य्- अर्गल- नाशनम् || ६६|| सम्यग्गात्र- समुद्भूत- ग्रन्थि- त्रय- विभेदकम् | विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम् || ६७|| अथ भ्रामरी वेगाद्घोषं पूरकं भृङ्ग- नादं भृङ्गी- नादं रेचकं मन्द- मन्दम् | योगीन्द्राणमेवमभ्यास- योगाच् चित्ते जाता काचिदानन्द- लीला || ६८|| अथ मूर्च्छा पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः | रेचयेन्मूर्च्छाख्येयं मनो- मूर्च्छा सुख- प्रदा || ६९|| अथ प्लाविनी अन्तः प्रवर्तितोदार- मारुतापूरितोदरः | पयस्यगाधेऽपि सुखात्प्लवते पद्म- पत्रवत् || ७०|| प्राणायामस्त्रिधा प्रोक्तो रेच- पूरक- कुम्भकैः | सहितः केवलश्चेति कुम्भको द्विविधो मतः || ७१|| यावत्केवल- सिद्धिः स्यात्सहितं तावदभ्यसेत् | रेचकं पूरकं मुक्त्वा सुखं यद्वायु- धारणम् || ७२|| प्राणायामोऽयमित्युक्तः स वै केवल- कुम्भकः | कुम्भके केवले सिद्धे रेच- पूरक- वर्जिते || ७३|| न तस्य दुर्लभं किंचित्त्रिषु लोकेषु विद्यते | शक्तः केवल- कुम्भेन यथेष्टं वायु- धारणात् || ७४|| राज- योग- पदं चापि लभते नात्र संशयः | कुम्भकात्कुण्डली- बोधः कुण्डली- बोधतो भवेत् | अनर्गला सुषुम्णा च हठ- सिद्धिश्च जायते || ७५|| हठं विना राजयोगो राज- योगं विना हठः | न सिध्यति ततो युग्ममानिष्पत्तेः समभ्यसेत् || ७६|| कुम्भक- प्राण- रोधान्ते कुर्याच्चित्तं निराश्रयम् | एवमभ्यास- योगेन राज- योग- पदं व्रजेत् || ७७|| वपुः कृशत्वं वदने प्रसन्नता नाद- स्फुटत्वं नयने सुनिर्मले | अरोगता बिन्दु- जयोऽग्नि- दीपनं नाडी- विशुद्धिर्हठ- सिद्धि- लक्षणम् || ७८|| इति हठ- प्रदीपिकायां द्वितीयोपदेशः | || ३|| तृतीयोपदेशः स- शैल- वन- धात्रीणां यथाधारोऽहि- नायकः | सर्वेषां योग- तन्त्राणां तथाधारो हि कुण्डली || १|| सुप्ता गुरु- प्रसादेन यदा जागर्ति कुण्डली | तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च || २|| प्राणस्य शून्य- पदवी तदा राजपथायते | तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम् || ३|| सुषुम्णा शून्य- पदवी ब्रह्म- रन्ध्रः महापथः | श्मशानं शाम्भवी मध्य- मार्गश्चेत्येक- वाचकाः || ४|| तस्मात्सर्व- प्रयत्नेन प्रबोधयितुमीश्वरीम् | ब्रह्म- द्वार- मुखे सुप्तां मुद्राभ्यासं समाचरेत् || ५|| महामुद्रा महाबन्धो महावेधश्च खेचरी | उड्डीयानं मूलबन्धश्च बन्धो जालन्धराभिधः || ६|| करणी विपरीताख्या वज्रोली शक्ति- चालनम् | इदं हि मुद्रा- दशकं जरा- मरण- नाशनम् || ७|| आदिनाथोदितं दिव्यमष्टैश्वर्य- प्रदायकम् | वल्लभं सर्व- सिद्धानां दुर्लभं मरुतामपि || ८|| गोपनीयं प्रयत्नेन यथा रत्न- करण्डकम् | कस्यचिन्नैव वक्तव्यं कुल- स्त्री- सुरतं यथा || ९|| अथ महा- मुद्रा पाद- मूलेन वामेन योनिं सम्पीड्य दक्षिणाम् | प्रसारितं पदं कृत्वा कराभ्यां धारयेद्दृढम् || १०|| कण्ठे बन्धं समारोप्य धारयेद्वायुमूर्ध्वतः | यथा दण्ड- हतः सर्पो दण्डाकारः प्रजायते || ११|| ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् | तदा सा मरणावस्था जायते द्विपुटाश्रया || १२|| ततः शनैः शनैरेव रेचयेन्नैव वेगतः | महा- मुद्रां च तेनैव वदन्ति विबुधोत्तमाः || १३|| इयं खलु महामुद्रा महा- सिद्धैः प्रदर्शिता | महा- क्लेशादयो दोषाः क्षीयन्ते मरणादयः | महा- मुद्रां च तेनैव वदन्ति विबुधोत्तमाः || १४|| चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनरभ्यसेत् | यावत्- तुल्या भवेत्सङ्ख्या ततो मुद्रां विसर्जयेत् || १५|| न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः | अपि भुक्तं विषं घोरं पीयूषमपि जीर्यति || १६|| क्षय- कुष्ठ- गुदावर्त- गुल्माजीर्ण- पुरोगमाः | तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत् || १७|| कथितेयं महामुद्रा महा- सिद्धि- करा नॄणाम् | गोपनीया प्रयत्नेन न देया यस्य कस्यचित् || १८|| अथ महा- बन्धः पार्ष्णिं वामस्य पादस्य योनि- स्थाने नियोजयेत् | वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा || १९|| पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् | निष्पीड्यं वायुमाकुञ्च्य मनो- मध्ये नियोजयेत् || २०|| धारयित्वा यथा- शक्ति रेचयेदनिलं शनैः | सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनरभ्यसेत् || २१|| मतमत्र तु केषांचित्कण्ठ- बन्धं विवर्जयेत् | राज- दन्त- स्थ- जिह्वाया बन्धः शस्तो भवेदिति || २२|| अयं तु सर्व- नाडीनामूर्ध्वं गति- निरोधकः | अयं खलु महा- बन्धो महा- सिद्धि- प्रदायकः || २३|| काल- पाश- महा- बन्ध- विमोचन- विचक्षणः | त्रिवेणी- सङ्गमं धत्ते केदारं प्रापयेन्मनः || २४|| रूप- लावण्य- सम्पन्ना यथा स्त्री पुरुषं विना | महा- मुद्रा- महा- बन्धौ निष्फलौ वेध- वर्जितौ || २५|| अथ महा- वेधः महा- बन्ध- स्थितो योगी कृत्वा पूरकमेक- धीः | वायूनां गतिमावृत्य निभृतं कण्ठ- मुद्रया || २६|| सम- हस्त- युगो भूमौ स्फिचौ सनाडयेच्छनैः | पुट- द्वयमतिक्रम्य वायुः स्फुरति मध्यगः || २७|| सोम- सूर्याग्नि- सम्बन्धो जायते चामृताय वै | मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत् || २८|| महा- वेधोऽयमभ्यासान्महा- सिद्धि- प्रदायकः | वली- पलित- वेप- घ्नः सेव्यते साधकोत्तमैः || २९|| एतत्त्रयं महा- गुह्यं जरा- मृत्यु- विनाशनम् | वह्नि- वृद्धि- करं चैव ह्यणिमादि- गुण- प्रदम् || ३०|| अष्टधा क्रियते चैव यामे यामे दिने दिने | पुण्य- संभार- सन्धाय पापौघ- भिदुरं सदा | सम्यक्- शिक्षावतामेवं स्वल्पं प्रथम- साधनम् || ३१|| अथ खेचरी कपाल- कुहरे जिह्वा प्रविष्टा विपरीतगा | भ्रुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी || ३२|| छेदन- चालन- दोहैः कलां क्रमेणाथ वर्धयेत्तावत् | सा यावद्भ्रू- मध्यं स्पृशति तदा खेचरी- सिद्धिः || ३३|| स्नुही- पत्र- निभं शस्त्रं सुतीक्ष्णं स्निग्ध- निर्मलम् | समादाय ततस्तेन रोम- मात्रं समुच्छिनेत् || ३४|| ततः सैन्धव- पथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् | पुनः सप्त- दिने प्राप्ते रोम- मात्रं समुच्छिनेत् || ३५|| एवं क्रमेण षण्- मासं नित्यं युक्तः समाचरेत् | षण्मासाद्रसना- मूल- शिरा- बन्धः प्रणश्यति || ३६|| कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् | सा भवेत्खेचरी मुद्रा व्योम- चक्रं तदुच्यते || ३७|| रसनामूर्ध्वगां कृत्वा क्षणार्धमपि तिष्ठति | विषैर्विमुच्यते योगी व्याधि- मृत्यु- जरादिभिः || ३८|| न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा | न च मूर्च्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम् || ३९|| पीड्यते न स रोगेण लिप्यते न च कर्मणा | बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम् || ४०|| चित्तं चरति खे यस्माज्जिह्वा चरति खे गता | तेनैषा खेचरी नाम मुद्रा सिद्धैर्निरूपिता || ४१|| खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः | न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च || ४२|| चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनि- मण्डलम् | व्रजत्यूर्ध्वं हृतः शक्त्या निबद्धो योनि- मुद्रया || ४३|| ऊर्ध्व- जिह्वः स्थिरो भूत्वा सोमपानं करोति यः | मासार्धेन न सन्देहो मृत्युं जयति योगवित् || ४४|| नित्यं सोम- कला- पूर्णं शरीरं यस्य योगिनः | तक्षकेणापि दष्टस्य विषं तस्य न सर्पति || ४५|| इन्धनानि यथा वह्निस्तैल- वर्ति च दीपकः | तथा सोम- कला- पूर्णं देही देहं न मुञ्चति || ४६|| गोमांसं भक्षयेन्नित्यं पिबेदमर- वारुणीम् | कुलीनं तमहं मन्ये चेतरे कुल- घातकाः || ४७|| गो- शब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि | गो- मांस- भक्षणं तत्तु महा- पातक- नाशनम् || ४८|| जिह्वा- प्रवेश- सम्भूत- वह्निनोत्पादितः खलु | चन्द्रात्स्रवति यः सारः सा स्यादमर- वारुणी || ४९|| चुम्बन्ती यदि लम्बिकाग्रमनिशं जिह्वा- रस- स्यन्दिनी स- क्षारा कटुकाम्ल- दुग्ध- सदृशी मध्वाज्य- तुल्या तथा | व्याधीनां हरणं जरान्त- करणं शस्त्रागमोदीरणं तस्य स्यादमरत्वमष्ट- गुणितं सिद्धाङ्गनाकर्षणम् || ५०|| मूर्ध्नः षोडश- पत्र- पद्म- गलितं प्राणादवाप्तं हठाद् ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन् | उत्कल्लोल- कला- जलं च विमलं धारामयं यः पिबेन् निर्व्याधिः स मृणाल- कोमल- वपुर्योगी चिरं जीवति || ५१|| यत्प्रालेयं प्रहित- सुषिरं मेरु- मूर्धान्तर- स्थं तस्मिंस्तत्त्वं प्रवदति सुधीस्तन्- मुखं निम्नगानाम् | चन्द्रात्सारः स्रवति वपुषस्तेन मृत्युर्नराणां तद्बध्नीयात्सुकरणमधो नान्यथा काय- सिद्धिः || ५२|| सुषिरं ज्ञान- जनकं पञ्च- स्रोतः- समन्वितम् | तिष्ठते खेचरी मुद्रा तस्मिन्शून्ये निरञ्जने || ५३|| एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी | एको देवो निरालम्ब एकावस्था मनोन्मनी || ५४|| अथ उड्डीयान- बन्धः बद्धो येन सुषुम्णायां प्राणस्तूड्डीयते यतः | तस्मादुड्डीयनाख्योऽयं योगिभिः समुदाहृतः || ५५|| उड्डीनं कुरुते यस्मादविश्रान्तं महा- खगः | उड्डीयानं तदेव स्यात्तव बन्धोऽभिधीयते || ५६|| उदरे पश्चिमं तानं नाभेरूर्ध्वं च कारयेत् | उड्डीयानो ह्यसौ बन्धो मृत्यु- मातङ्ग- केसरी || ५७|| उड्डीयानं तु सहजं गुरुणा कथितं सदा | अभ्यसेत्सततं यस्तु वृद्धोऽपि तरुणायते || ५८|| नाभेरूर्ध्वमधश्चापि तानं कुर्यात्प्रयत्नतः | षण्मासमभ्यसेन्मृत्युं जयत्येव न संशयः || ५९|| सर्वेषामेव बन्धानां उत्तमो ह्युड्डीयानकः | उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत् || ६०|| अथ मूल- बन्धः पार्ष्णि- भागेन सम्पीड्य योनिमाकुञ्चयेद्गुदम् | अपानमूर्ध्वमाकृष्य मूल- बन्धोऽभिधीयते || ६१|| अधो- गतिमपानं वा ऊर्ध्वगं कुरुते बलात् | आकुञ्चनेन तं प्राहुर्मूल- बन्धं हि योगिनः || ६२|| गुदं पार्ष्ण्या तु सम्पीड्य वायुमाकुञ्चयेद्बलात् | वारं वारं यथा चोर्ध्वं समायाति समीरणः || ६३|| प्राणापानौ नाद- बिन्दू मूल- बन्धेन चैकताम् | गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः || ६४|| अपान- प्राणयोरैक्यं क्षयो मूत्र- पुरीषयोः | युवा भवति वृद्धोऽपि सततं मूल- बन्धनात् || ६५|| अपान ऊर्ध्वगे जाते प्रयाते वह्नि- मण्डलम् | तदानल- शिखा दीर्घा जायते वायुनाहता || ६६|| ततो यातो वह्न्य्- अपानौ प्राणमुष्ण- स्वरूपकम् | तेनात्यन्त- प्रदीप्तस्तु ज्वलनो देहजस्तथा || ६७|| तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते | दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत् || ६८|| बिलं प्रविष्टेव ततो ब्रह्म- नाड्यं तरं व्रजेत् | तस्मान्नित्यं मूल- बन्धः कर्तव्यो योगिभिः सदा || ६९|| अथ जलन्धर- बन्धः कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् | बन्धो जालन्धराख्योऽयं जरा- मृत्यु- विनाशकः || ७०|| बध्नाति हि सिराजालमधो- गामि नभो- जलम् | ततो जालन्धरो बन्धः कण्ठ- दुःखौघ- नाशनः || ७१|| जालन्धरे कृते बन्धे कण्ठ- संकोच- लक्षणे | न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति || ७२|| कण्ठ- संकोचनेनैव द्वे नाड्यौ स्तम्भयेद्दृढम् | मध्य- चक्रमिदं ज्ञेयं षोडशाधार- बन्धनम् || ७३|| मूल- स्थानं समाकुञ्च्य उड्डियानं तु कारयेत् | इडां च पिङ्गलां बद्ध्वा वाहयेत्पश्चिमे पथि || ७४|| अनेनैव विधानेन प्रयाति पवनो लयम् | ततो न जायते मृत्युर्जरा- रोगादिकं तथा || ७५|| बन्ध- त्रयमिदं श्रेष्ठं महा- सिद्धैश्च सेवितम् | सर्वेषां हठ- तन्त्राणां साधनं योगिनो विदुः || ७६|| यत्किंचित्स्रवते चन्द्रादमृतं दिव्य- रूपिणः | तत्सर्वं ग्रसते सूर्यस्तेन पिण्डो जरायुतः || ७७|| अथ विपरीत- करणी मुद्रा तत्रास्ति करणं दिव्यं सूर्यस्य मुख- वञ्चनम् | गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थ- कोटिभिः || ७८|| ऊर्ध्व- नाभेरधस्तालोरूर्ध्वं भानुरधः शशी | करणी विपरीताखा गुरु- वाक्येन लभ्यते || ७९|| नित्यमभ्यास- युक्तस्य जठराग्नि- विवर्धनी | आहारो बहुलस्तस्य सम्पाद्यः साधकस्य च || ८०|| अल्पाहारो यदि भवेदग्निर्दहति तत्- क्षणात् | अधः- शिराश्चोर्ध्व- पादः क्षणं स्यात्प्रथमे दिने || ८१|| क्षणाच्च किंचिदधिकमभ्यसेच्च दिने दिने | वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते | याम- मात्रं तु यो नित्यमभ्यसेत्स तु कालजित् || ८२|| अथ वज्रोली स्वेच्छया वर्तमानोऽपि योगोक्तैर्नियमैर्विना | वज्रोलीं यो विजानाति स योगी सिद्धि- भाजनम् || ८३|| तत्र वस्तु- द्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् | क्षीरं चैकं द्वितीयं तु नारी च वश- वर्तिनी || ८४|| मेहनेन शनैः सम्यगूर्ध्वाकुञ्चनमभ्यसेत् | पुरुषोऽप्यथवा नारी वज्रोली- सिद्धिमाप्नुयात् || ८५|| यत्नतः शस्त- नालेन फूत्कारं वज्र- कन्दरे | शनैः शनैः प्रकुर्वीत वायु- संचार- कारणात् || ८६|| नारी- भगे पदद्- बिन्दुमभ्यासेनोर्ध्वमाहरेत् | चलितं च निजं बिन्दुमूर्ध्वमाकृष्य रक्षयेत् || ८७|| एवं संरक्षयेद्बिन्दुं जयति योगवित् | मरणं बिन्दु- पातेन जीवनं बिन्दु- धारणात् || ८८|| सुगन्धो योगिनो देहे जायते बिन्दु- धारणात् | यावद्बिन्दुः स्थिरो देहे तावत्काल- भयं कुतः || ८९|| चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम् | तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः || ९०|| ऋतुमत्या रजोऽप्येवं निजं बिन्दुं च रक्षयेत् | मेढ्रेणाकर्षयेदूर्ध्वं सम्यगभ्यास- योग- वित् || ९१|| अथ सहजोलिः सहजोलिश्चामरोलिर्वज्रोल्या भेद एकतः | जले सुभस्म निक्षिप्य दग्ध- गोमय- सम्भवम् || ९२|| वज्रोली- मैथुनादूर्ध्वं स्त्री- पुंसोः स्वाङ्ग- लेपनम् | आसीनयोः सुखेनैव मुक्त- व्यापारयोः क्षणात् || ९३|| सहजोलिरियं प्रोक्ता श्रद्धेया योगिभिः सदा | अयं शुभकरो योगो भोग- युक्तोऽपि मुक्तिदः || ९४|| अयं योगः पुण्यवतां धीराणां तत्त्व- दर्शिनाम् | निर्मत्सराणां वै सिध्येन्न तु मत्सर- शालिनाम् || ९५|| अथ अमरोली पित्तोल्बणत्वात्प्रथमाम्बु- धारां विहाय निःसारतयान्त्यधाराम् | निषेव्यते शीतल- मध्य- धारा कापालिके खण्डमतेऽमरोली || ९६|| अमरीं यः पिबेन्नित्यं नस्यं कुर्वन्दिने दिने | वज्रोलीमभ्यसेत्सम्यक्सामरोलीति कथ्यते || ९७|| अभ्यासान्निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत् | धारयेदुत्तमाङ्गेषु दिव्य- दृष्टिः प्रजायते || ९८|| पुंसो बिन्दुं समाकुञ्च्य सम्यगभ्यास- पाटवात् | यदि नारी रजो रक्षेद्वज्रोल्या सापि योगिनी || ९९|| तस्याः किंचिद्रजो नाशं न गच्छति न संशयः | तस्याः शरीरे नादश्च बिन्दुतामेव गच्छति || १००|| स बिन्दुस्तद्रजश्चैव एकीभूय स्वदेहगौ | वज्रोल्य्- अभ्यास- योगेन सर्व- सिद्धिं प्रयच्छतः || १०१|| रक्षेदाकुञ्चनादूर्ध्वं या रजः सा हि योगिनी | अतीतानागतं वेत्ति खेचरी च भवेद्ध्रुवम् || १०२|| देह- सिद्धिं च लभते वज्रोल्य्- अभ्यास- योगतः | अयं पुण्य- करो योगो भोगे भुक्तेऽपि मुक्तिदः || १०३|| अथ शक्ति- चालनम् कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी | कुण्डल्यरुन्धती चैते शब्दाः पर्याय- वाचकाः || १०४|| उद्घाटयेत्कपाटं तु यथा कुंचिकया हठात् | कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् || १०५|| येन मार्गेण गन्तव्यं ब्रह्म- स्थानं निरामयम् | मुखेनाच्छाद्य तद्वारं प्रसुप्ता परमेश्वरी || १०६|| कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् | बन्धनाय च मूढानां यस्तां वेत्ति स योगवित् || १०७|| कुण्डली कुटिलाकारा सर्पवत्परिकीर्तिता | सा शक्तिश्चालिता येन स मुक्तो नात्र संशयः || १०८|| गङ्गा- यमुनयोर्मध्ये बाल- रण्डां तपस्विनीम् | बलात्कारेण गृह्णीयात्तद्विष्णोः परमं पदम् || १०९|| इडा भगवती गङ्गा पिङ्गला यमुना नदी | इडा- पिङ्गलयोर्मध्ये बालरण्डा च कुण्डली || ११०|| पुच्छे प्रगृह्य भुजङ्गीं सुप्तामुद्बोधयेच्च ताम् | निद्रां विहाय सा शक्तिरूर्ध्वमुत्तिष्ठते हठात् || १११|| अवस्थिता चैव फणावती सा प्रातश्च सायं प्रहरार्ध- मात्रम् | प्रपूर्य सूर्यात्परिधान- युक्त्या प्रगृह्य नित्यं परिचालनीया || ११२|| ऊर्ध्वं वितस्ति- मात्रं तु विस्तारं चतुरङ्गुलम् | मृदुलं धवलं प्रोक्तं वेष्टिताम्बर- लक्षणम् || ११३|| सति वज्रासने पादौ कराभ्यां धारयेद्दृढम् | गुल्फ- देश- समीपे च कन्दं तत्र प्रपीडयेत् || ११४|| वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम् | कुर्यादनन्तरं भस्त्रां कुण्डलीमाशु बोधयेत् || ११५|| भानोराकुञ्चनं कुर्यात्कुण्डलीं चालयेत्ततः | मृत्यु- वक्त्र- गतस्यापि तस्य मृत्यु- भयं कुतः || ११६|| मुहूर्त- द्वय- पर्यन्तं निर्भयं चालनादसौ | ऊर्ध्वमाकृष्यते किंचित्सुषुम्णायां समुद्गता || ११७|| तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम् | जहाति तस्मात्प्राणोऽयं सुषुम्णां व्रजति स्वतः || ११८|| तस्मात्संचालयेन्नित्यं सुख- सुप्तामरुन्धतीम् | तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते || ११९|| येन संचालिता शक्तिः स योगी सिद्धि- भाजनम् | किमत्र बहुनोक्तेन कालं जयति लीलया || १२०|| ब्रह्मचर्य- रतस्यैव नित्यं हित- मिताशिनः | मण्डलाद्दृश्यते सिद्धिः कुण्डल्य्- अभ्यास- योगिनः || १२१|| कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद्विशेषतः | एवमभ्यस्यतो नित्यं यमिनो यम- भीः कुतः || १२२|| द्वा- सप्तति- सहस्राणां नाडीनां मल- शोधने | कुतः प्रक्षालनोपायः कुण्डल्य्- अभ्यसनादृते || १२३|| इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम् | आसन- प्राण- संयाम- मुद्राभिः सरला भवेत् || १२४|| अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना | रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति || १२५|| राज- योगं विना पृथ्वी राज- योगं विना निशा | राज- योगं विना मुद्रा विचित्रापि न शोभते || १२६|| मारुतस्य विधिं सर्वं मनो- युक्तं समभ्यसेत् | इतरत्र न कर्तव्या मनो- वृत्तिर्मनीषिणा || १२७|| इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना | एकैका तासु यमिनां महा- सिद्धि- प्रदायिनी || १२८|| उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम् | स एव श्री- गुरुः स्वामी साक्षादीश्वर एव सः || १२९|| तस्य वाक्य- परो भूत्वा मुद्राभ्यासे समाहितः | अणिमादि- गुणैः सार्धं लभते काल- वञ्चनम् || १३०|| इति हठ- प्रदीपिकायां तृतीयोपदेशः | || ४|| चतुर्थोपदेशः नमः शिवाय गुरवे नाद- बिन्दु- कलात्मने | निरञ्जन- पदं याति नित्यं तत्र परायणः || १|| अथेदानीं प्रवक्ष्यामि समाधिक्रममुत्तमम् | मृत्युघ्नं च सुखोपायं ब्रह्मानन्द- करं परम् || २|| राज- योगः समाधिश्च उन्मनी च मनोन्मनी | अमरत्वं लयस्तत्त्वं शून्याशून्यं परं पदम् || ३|| अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम् | जीवन्मुक्तिश्च सहजा तुर्या चेत्येक- वाचकाः || ४|| सलिले सैन्धवं यद्वत्साम्यं भजति योगतः | तथात्म- मनसोरैक्यं समाधिरभिधीयते || ५|| यदा संक्षीयते प्राणो मानसं च प्रलीयते | तदा समरसत्वं च समाधिरभिधीयते || ६|| तत्- समं च द्वयोरैक्यं जीवात्म- परमात्मनोः | प्रनष्ट- सर्व- सङ्कल्पः समाधिः सोऽभिधीयते || ७|| राज- योगस्य माहात्म्यं को वा जानाति तत्त्वतः | ज्ञानं मुक्तिः स्थितिः सिद्धिर्गुरु- वाक्येन लभ्यते || ८|| दुर्लभो विषय- त्यागो दुर्लभं तत्त्व- दर्शनम् | दुर्लभा सहजावस्था सद्- गुरोः करुणां विना || ९|| विविधैरासनैः कुभैर्विचित्रैः करणैरपि | प्रबुद्धायां महा- शक्तौ प्राणः शून्ये प्रलीयते || १०|| उत्पन्न- शक्ति- बोधस्य त्यक्त- निःशेष- कर्मणः | योगिनः सहजावस्था स्वयमेव प्रजायते || ११|| सुषुम्णा- वाहिनि प्राणे शून्ये विशति मानसे | तदा सर्वाणि कर्माणि निर्मूलयति योगवित् || १२|| अमराय नमस्तुभ्यं सोऽपि कालस्त्वया जितः | पतितं वदने यस्य जगदेतच्चराचरम् || १३|| चित्ते समत्वमापन्ने वायौ व्रजति मध्यमे | तदामरोली वज्रोली सहजोली प्रजायते || १४|| ज्ञानं कुतो मनसि सम्भवतीह तावत् प्राणोऽपि जीवति मनो म्रियते न यावत् | प्राणो मनो द्वयमिदं विलयं नयेद्यो मोक्षं स गच्छति नरो न कथंचिदन्यः || १५|| ज्ञात्वा सुषुम्णासद्- भेदं कृत्वा वायुं च मध्यगम् | स्थित्वा सदैव सुस्थाने ब्रह्म- रन्ध्रे निरोधयेत् || १६|| सूर्य- चन्द्रमसौ धत्तः कालं रात्रिन्दिवात्मकम् | भोक्त्री सुषुम्ना कालस्य गुह्यमेतदुदाहृतम् || १७|| द्वा- सप्तति- सहस्राणि नाडी- द्वाराणि पञ्जरे | सुषुम्णा शाम्भवी शक्तिः शेषास्त्वेव निरर्थकाः || १८|| वायुः परिचितो यस्मादग्निना सह कुण्डलीम् | बोधयित्वा सुषुम्णायां प्रविशेदनिरोधतः || १९|| सुषुम्णा- वाहिनि प्राणे सिद्ध्यत्येव मनोन्मनी | अन्यथा त्वितराभ्यासाः प्रयासायैव योगिनाम् || २०|| पवनो बध्यते येन मनस्तेनैव बध्यते | मनश्च बध्यते येन पवनस्तेन बध्यते || २१|| हेतु- द्वयं तु चित्तस्य वासना च समीरणः | तयोर्विनष्ट एकस्मिन्तौ द्वावपि विनश्यतः || २२|| मनो यत्र विलीयेत पवनस्तत्र लीयते | पवनो लीयते यत्र मनस्तत्र विलीयते || २३|| दुग्धाम्बुवत्संमिलितावुभौ तौ तुल्य- क्रियौ मानस- मारुतौ हि | यतो मरुत्तत्र मनः- प्रवृत्तिर् यतो मनस्तत्र मरुत्- प्रवृत्तिः || २४|| तत्रैक- नाशादपरस्य नाश एक- प्रवृत्तेरपर- प्रवृत्तिः | अध्वस्तयोश्चेन्द्रिय- वर्ग- वृत्तिः प्रध्वस्तयोर्मोक्ष- पदस्य सिद्धिः || २५|| रसस्य मनसश्चैव चञ्चलत्वं स्वभावतः | रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले || २६|| मूर्च्छितो हरते व्याधीन्मृतो जीवयति स्वयम् | बद्धः खेचरतां धत्ते रसो वायुश्च पार्वति || २७|| मनः स्थैर्यं स्थिरो वायुस्ततो बिन्दुः स्थिरो भवेत् | बिन्दु- स्थैर्यात्सदा सत्त्वं पिण्ड- स्थैर्यं प्रजायते || २८|| इन्द्रियाणां मनो नाथो मनोनाथस्तु मारुतः | मारुतस्य लयो नाथः स लयो नादमाश्रितः || २९|| सोऽयमेवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे | मनः- प्राण- लये कश्चिदानन्दः सम्प्रवर्तते || ३०|| प्रनष्ट- श्वास- निश्वासः प्रध्वस्त- विषय- ग्रहः | निश्चेष्टो निर्विकारश्च लयो जयति योगिनाम् || ३१|| उच्छिन्न- सर्व- सङ्कल्पो निःशेषाशेष- चेष्टितः | स्वावगम्यो लयः कोऽपि जायते वाग्- अगोचरः || ३२|| यत्र दृष्टिर्लयस्तत्र भूतेन्द्रिय- सनातनी | सा शक्तिर्जीव- भूतानां द्वे अलक्ष्ये लयं गते || ३३|| लयो लय इति प्राहुः कीदृशं लय- लक्षणम् | अपुनर्- वासनोत्थानाल्लयो विषय- विस्मृतिः || ३४|| वेद- शास्त्र- पुराणानि सामान्य- गणिका इव | एकैव शाम्भवी मुद्रा गुप्ता कुल- वधूरिव || ३५|| अथ शाम्भवी अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेष- वर्जिता | एषा सा शाम्भवी मुद्रा वेद- शास्त्रेषु गोपिता || ३६|| अन्तर्लक्ष्य- विलीन- चित्त- पवनो योगी यदा वर्तते दृष्ट्या निश्चल- तारया बहिरधः पश्यन्नपश्यन्नपि | मुद्रेयं खलु शाम्भवी भवति सा लब्धा प्रसादाद्गुरोः शून्याशून्य- विलक्षणं स्फुरति तत्तत्त्वं पदं शाम्भवम् || ३७|| श्री- शाम्भव्याश्च खेचर्या अवस्था- धाम- भेदतः | भवेच्चित्त- लयानन्दः शून्ये चित्- सुख- रूपिणि || ३८|| तारे ज्योतिषि संयोज्य किंचिदुन्नमयेद्भ्रुवौ | पूर्व- योगं मनो युञ्जन्नुन्मनी- कारकः क्षणात् || ३९|| केचिदागम- जालेन केचिन्निगम- सङ्कुलैः | केचित्तर्केण मुह्यन्ति नैव जानन्ति तारकम् || ४०|| अर्धोन्मीलित- लोचनः स्थिर- मना नासाग्र- दत्तेक्षणश् चन्द्रार्कावपि लीनतामुपनयन्निस्पन्द- भावेन यः | ज्योती- रूपमशेष- बीजमखिलं देदीप्यमानं परं तत्त्वं तत्- पदमेति वस्तु परमं वाच्यं किमत्राधिकम् || ४१|| दिवा न पूजयेल्लिङ्गं रात्रौ चैव न पूजयेत् | सर्वदा पूजयेल्लिङ्गं दिवारात्रि- निरोधतः || ४२|| अथ खेचरी सव्य- दक्षिण- नाडी- स्थो मध्ये चरति मारुतः | तिष्ठते खेचरी मुद्रा तस्मिन्स्थाने न संशयः || ४३|| इडा- पिङ्गलयोर्मध्ये शून्यं चैवानिलं ग्रसेत् | तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः || ४४|| सूर्च्याचन्द्रमसोर्मध्ये निरालम्बान्तरे पुनः | संस्थिता व्योम- चक्रे या सा मुद्रा नाम खेचरी || ४५|| सोमाद्यत्रोदिता धारा साक्षात्सा शिव- वल्लभा | पूरयेदतुलां दिव्यां सुषुम्णां पश्चिमे मुखे || ४६|| पुरस्ताच्चैव पूर्येत निश्चिता खेचरी भवेत् | अभ्यस्ता खेचरी मुद्राप्युन्मनी सम्प्रजायते || ४७|| भ्रुवोर्मध्ये शिव- स्थानं मनस्तत्र विलीयते | ज्ञातव्यं तत्- पदं तुर्यं तत्र कालो न विद्यते || ४८|| अभ्यसेत्खेचरीं तावद्यावत्स्याद्योग- निद्रितः | सम्प्राप्त- योग- निद्रस्य कालो नास्ति कदाचन || ४९|| निरालम्बं मनः कृत्वा न किंचिदपि चिन्तयेत् | स- बाह्याभ्यन्तरं व्योम्नि घटवत्तिष्ठति ध्रुवम् || ५०|| बाह्य- वायुर्यथा लीनस्तथा मध्यो न संशयः | स्व- स्थाने स्थिरतामेति पवनो मनसा सह || ५१|| एवमभ्यस्यतस्तस्य वायु- मार्गे दिवानिशम् | अभ्यासाज्जीर्यते वायुर्मनस्तत्रैव लीयते || ५२|| अमृतैः प्लावयेद्देहमापाद- तल- मस्तकम् | सिद्ध्यत्येव महा- कायो महा- बल- पराक्रमः || ५३|| शक्ति- मध्ये मनः कृत्वा शक्तिं मानस- मध्यगाम् | मनसा मन आलोक्य धारयेत्परमं पदम् || ५४|| ख- मध्ये कुरु चात्मानमात्म- मध्ये च खं कुरु | सर्वं च ख- मयं कृत्वा न किंचिदपि चिन्तयेत् || ५५|| अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे | अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे || ५६|| बाह्य- चिन्ता न कर्तव्या तथैवान्तर- चिन्तनम् | सर्व- चिन्तां परित्यज्य न किंचिदपि चिन्तयेत् || ५७|| सङ्कल्प- मात्र- कलनैव जगत्समग्रं सङ्कल्प- मात्र- कलनैव मनो- विलासः | सङ्कल्प- मात्र- मतिमुत्सृज निर्विकल्पम् आश्रित्य निश्चयमवाप्नुहि राम शान्तिम् || ५८|| कर्पूरमनले यद्वत्सैन्धवं सलिले यथा | तथा सन्धीयमानं च मनस्तत्त्वे विलीयते || ५९|| ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते | ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः || ६०|| मनो- दृश्यमिदं सर्वं यत्किंचित्स- चराचरम् | मनसो ह्युन्मनी- भावाद्द्वैतं नैवोलभ्यते || ६१|| ज्ञेय- वस्तु- परित्यागाद्विलयं याति मानसम् | मनसो विलये जाते कैवल्यमवशिष्यते || ६२|| एवं नाना- विधोपायाः सम्यक्स्वानुभवान्विताः | समाधि- मार्गाः कथिताः पूर्वाचार्यैर्महात्मभिः || ६३|| सुषुम्णायै कुण्डलिन्यै सुधायै चन्द्र- जन्मने | मनोन्मन्यै नमस्तुभ्यं महा- शक्त्यै चिद्- आत्मने || ६४|| अशक्य- तत्त्व- बोधानां मूढानामपि संमतम् | प्रोक्तं गोरक्ष- नाथेन नादोपासनमुच्यते || ६५|| श्री- आदिनाथेन स- पाद- कोटि- लय- प्रकाराः कथिता जयन्ति | नादानुसन्धानकमेकमेव मन्यामहे मुख्यतमं लयानाम् || ६६|| मुक्तासने स्थितो योगी मुद्रां सन्धाय शाम्भवीम् | शृणुयाद्दक्षिणे कर्णे नादमन्तास्थमेकधीः || ६७|| श्रवण- पुट- नयन- युगल घ्राण- मुखानां निरोधनं कार्यम् | शुद्ध- सुषुम्णा- सरणौ स्फुटममलः श्रूयते नादः || ६८|| आरम्भश्च घटश्चैव तथा परिचयोऽपि च | निष्पत्तिः सर्व- योगेषु स्यादवस्था- चतुष्टयम् || ६९|| अथ आरम्भावस्था ब्रह्म- ग्रन्थेर्भवेद्भेदो ह्यानन्दः शून्य- सम्भवः | विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः || ७०|| दिव्य- देहश्च तेजस्वी दिव्य- गन्धस्त्वरोगवान् | सम्पूर्ण- हृदयः शून्य आरम्भे योगवान्भवेत् || ७१|| अथ घटावस्था द्वितीयायां घटीकृत्य वायुर्भवति मध्यगः | दृढासनो भवेद्योगी ज्ञानी देव- समस्तदा || ७२|| विष्णु- ग्रन्थेस्ततो भेदात्परमानन्द- सूचकः | अतिशून्ये विमर्दश्च भेरी- शब्दस्तदा भवेत् || ७३|| अथ परिचयावस्था तृतीयायां तु विज्ञेयो विहायो मर्दल- ध्वनिः | महा- शून्यं तदा याति सर्व- सिद्धि- समाश्रयम् || ७४|| चित्तानन्दं तदा जित्वा सहजानन्द- सम्भवः | दोष- दुःख- जरा- व्याधि- क्षुधा- निद्रा- विवर्जितः || ७५|| अथ निष्पत्त्य्- अवस्था रुद्र- ग्रन्थिं यदा भित्त्वा शर्व- पीठ- गतोऽनिलः | निष्पत्तौ वैणवः शब्दः क्वणद्- वीणा- क्वणो भवेत् || ७६|| एकीभूतं तदा चित्तं राज- योगाभिधानकम् | सृष्टि- संहार- कर्तासौ योगीश्वर- समो भवेत् || ७७|| अस्तु वा मास्तु वा मुक्तिरत्रैवाखण्डितं सुखम् | लयोद्भवमिदं सौख्यं राज- योगादवाप्यते || ७८|| राज- योगमजानन्तः केवलं हठ- कर्मिणः | एतानभ्यासिनो मन्ये प्रयास- फल- वर्जितान् || ७९|| उन्मन्य्- अवाप्तये शीघ्रं भ्रू- ध्यानं मम संमतम् | राज- योग- पदं प्राप्तुं सुखोपायोऽल्प- चेतसाम् | सद्यः प्रत्यय- सन्धायी जायते नादजो लयः || ८०|| नादानुसन्धान- समाधि- भाजां योगीश्वराणां हृदि वर्धमानम् | आनन्दमेकं वचसामगम्यं जानाति तं श्री- गुरुनाथ एकः || ८१|| कर्णौ पिधाय हस्ताभ्यां यः शृणोति ध्वनिं मुनिः | तत्र चित्तं स्थिरीकुर्याद्यावत्स्थिर- पदं व्रजेत् || ८२|| अभ्यस्यमानो नादोऽयं बाह्यमावृणुते ध्वनिम् | पक्षाद्विक्षेपमखिलं जित्वा योगी सुखी भवेत् || ८३|| श्रूयते प्रथमाभ्यासे नादो नाना- विधो महान् | ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्म- सूक्ष्मकः || ८४|| आदौ जलधि- जीमूत- भेरी- झर्झर- सम्भवाः | मध्ये मर्दल- शङ्खोत्था घण्टा- काहलजास्तथा || ८५|| अन्ते तु किङ्किणी- वंश- वीणा- भ्रमर- निःस्वनाः | इति नानाविधा नादाः श्रूयन्ते देह- मध्यगाः || ८६|| महति श्रूयमाणेऽपि मेघ- भेर्य्- आदिके ध्वनौ | तत्र सूक्ष्मात्सूक्ष्मतरं नादमेव परामृशेत् || ८७|| घनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य वा घने | रममाणमपि क्षिप्तं मनो नान्यत्र चालयेत् || ८८|| यत्र कुत्रापि वा नादे लगति प्रथमं मनः | तत्रैव सुस्थिरीभूय तेन सार्धं विलीयते || ८९|| मकरन्दं पिबन्भृङ्गी गन्धं नापेक्षते यथा | नादासक्तं तथा चित्तं विषयान्नहि काङ्क्षते || ९०|| मनो- मत्त- गजेन्द्रस्य विषयोद्यान- चारिणः | समर्थोऽयं नियमने निनाद- निशिताङ्कुशः || ९१|| बद्धं तु नाद- बन्धेन मनः सन्त्यक्त- चापलम् | प्रयाति सुतरां स्थैर्यं छिन्न- पक्षः खगो यथा || ९२|| सर्व- चिन्तां परित्यज्य सावधानेन चेतसा | नाद एवानुसन्धेयो योग- साम्राज्यमिच्छता || ९३|| नादोऽन्तरङ्ग- सारङ्ग- बन्धने वागुरायते | अन्तरङ्ग- कुरङ्गस्य वधे व्याधायतेऽपि च || ९४|| अन्तरङ्गस्य यमिनो वाजिनः परिघायते | नादोपास्ति- रतो नित्यमवधार्या हि योगिना || ९५|| बद्धं विमुक्त- चाञ्चल्यं नाद- गन्धक- जारणात् | मनः- पारदमाप्नोति निरालम्बाख्य- खेऽटनम् || ९६|| नाद- श्रवणतः क्षिप्रमन्तरङ्ग- भुजङ्गमम् | विस्मृतय सर्वमेकाग्रः कुत्रचिन्नहि धावति || ९७|| काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति | नादे प्रवर्तितं चित्तं नादेन सह लीयते || ९८|| घण्टादिनाद- सक्त- स्तब्धान्तः- करण- हरिणस्य | प्रहरणमपि सुकरं स्याच्छर- सन्धान- प्रवीणश्चेत् || ९९|| अनाहतस्य शब्दस्य ध्वनिर्य उपलभ्यते | ध्वनेरन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः | मनस्तत्र लयं याति तद्विष्णोः परमं पदम् || १००|| तावदाकाश- सङ्कल्पो यावच्छब्दः प्रवर्तते | निःशब्दं तत्- परं ब्रह्म परमातेति गीयते || १०१|| यत्किंचिन्नाद- रूपेण श्रूयते शक्तिरेव सा | यस्तत्त्वान्तो निराकारः स एव परमेश्वरः || १०२|| इति नादानुसन्धानम् सर्वे हठ- लयोपाया राजयोगस्य सिद्धये | राज- योग- समारूढः पुरुषः काल- वञ्चकः || १०३|| तत्त्वं बीजं हठः क्षेत्रमौदासीन्यं जलं त्रिभिः | उन्मनी कल्प- लतिका सद्य एव प्रवर्तते || १०४|| सदा नादानुसन्धानात्क्षीयन्ते पाप- संचयाः | निरञ्जने विलीयेते निश्चितं चित्त- मारुतौ || १०५|| शङ्ख- दुन्धुभि- नादं च न शृणोति कदाचन | काष्ठवज्जायते देह उन्मन्यावस्थया ध्रुवम् || १०६|| सर्वावस्था- विनिर्मुक्तः सर्व- चिन्ता- विवर्जितः | मृतवत्तिष्ठते योगी स मुक्तो नात्र संशयः || १०७|| खाद्यते न च कालेन बाध्यते न च कर्मणा | साध्यते न स केनापि योगी युक्तः समाधिना || १०८|| न गन्धं न रसं रूपं न च स्पर्शं न निःस्वनम् | नात्मानं न परं वेत्ति योगी युक्तः समाधिना || १०९|| चित्तं न सुप्तं नोजाग्रत्स्मृति- विस्मृति- वर्जितम् | न चास्तमेति नोदेति यस्यासौ मुक्त एव सः || ११०|| न विजानाति शीतोष्णं न दुःखं न सुखं तथा | न मानं नोपमानं च योगी युक्तः समाधिना || १११|| स्वस्थो जाग्रदवस्थायां सुप्तवद्योऽवतिष्ठते | निःश्वासोच्छ्वास- हीनश्च निश्चितं मुक्त एव सः || ११२|| अवध्यः सर्व- शस्त्राणामशक्यः सर्व- देहिनाम् | अग्राह्यो मन्त्र- यन्त्राणां योगी युक्तः समाधिना || ११३|| यावन्नैव प्रविशति चरन्मारुतो मध्य- मार्गे यावद्विदुर्न भवति दृढः प्राण- वात- प्रबन्धात् | यावद्ध्याने सहज- सदृशं जायते नैव तत्त्वं तावज्ज्ञानं वदति तदिदं दम्भ- मिथ्या- प्रलापः || ११४|| इति हठ- योग- प्रदीपिकायां समाधि- लक्षणं नाम चतुर्थोपदेशः | Input by Jan Brzezinski in Balaram encoding Converted to itx encoding by Ulrich Stiehl
[szerkesztés] sanskrit2
Svatmarama: Hathayogapradipika
haṭha-yoga-pradīpikā (1) prathamopadeśaḥ
śrī-ādi-nāthāya namo'stu tasmai yenopadiṣṭā haṭha-yoga-vidyā / vibhrājate pronnata-rāja-yogam āroḍhum icchor adhirohiṇīva // HYP_1.1 //
praṇamya śrī-guruṃ nāthaṃ svātmārāmeṇa yoginā / kevalaṃ rāja-yogāya haṭha-vidyopadiśyate // HYP_1.2 // bhrāntyā bahumata-dhvānte rāja-yogam ajānatām / haṭha-pradīpikāṃ dhatte svātmārāmaḥ kṛpākaraḥ // HYP_1.3 // haṭha-vidyāṃ hi matsyendra-gorakṣādyā vijānate / svātmārāmo'thavā yogī jānīte tat-prasādataḥ // HYP_1.4 // śrī-ādinātha-matsyendra-śāvarānanda-bhairavāḥ / cauraṅgī-mīna-gorakṣa-virūpākṣa-bileśayāḥ // HYP_1.5 // manthāno bhairavo yogī siddhir buddhaś ca kanthaḍiḥ / koraṃṭakaḥ surānandaḥ siddhapādaś ca carpaṭiḥ // HYP_1.6 // kānerī pūjyapādaś ca nitya-nātho nirañjanaḥ / kapālī bindunāthaś ca kākacaṇḍīśvarāhvayaḥ // HYP_1.7 // allāmaḥ prabhudevaś ca ghoḍā colī ca ṭiṃṭiṇiḥ / bhānukī nāradevaś ca khaṇḍaḥ kāpālikas tathā // HYP_1.8 // ity ādayo mahāsiddhā haṭha-yoga-prabhāvataḥ / khaṇḍayitvā kāla-daṇḍaṃ brahmāṇḍe vicaranti te // HYP_1.9 // aśeṣa-tāpa-taptānāṃ samāśraya-maṭho haṭhaḥ / aśeṣa-yoga-yuktānām ādhāra-kamaṭho haṭhaḥ // HYP_1.10 // haṭha-vidyā paraṃ gopyā yoginā siddhim icchatā / bhaved vīryavatī guptā nirvīryā tu prakāśitā // HYP_1.11 // surājye dhārmike deśe subhikṣe nirupadrave / dhanuḥ pramāṇa-paryantaṃ śilāgni-jala-varjite / ekānte maṭhikā-madhye sthātavyaṃ haṭha-yoginā // HYP_1.12 //
alpa-dvāram arandhra-garta-vivaraṃ nātyucca-nīcāyataṃ samyag-gomaya-sāndra-liptam amalaṃ niḥśesa-jantūjjhitam / bāhye maṇḍapa-vedi-kūpa-ruciraṃ prākāra-saṃveṣṭitaṃ proktaṃ yoga-maṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ // HYP_1.13 //
evaṃ vidhe maṭhe sthitvā sarva-cintā-vivarjitaḥ / gurūpadiṣṭa-mārgeṇa yogam eva samabhyaset // HYP_1.14 // atyāhāraḥ prayāsaś ca prajalpo niyamāgrahaḥ / jana-saṅgaś ca laulyaṃ ca ṣaḍbhir yogo vinaśyati // HYP_1.15 // utsāhāt sāhasād dhairyāt tattva-jñānāś ca niścayāt / jana-saṅga-parityāgāt ṣaḍbhir yogaḥ prasiddhyati // HYP_1.16 //
atha yama-niyamāḥ
ahiṃsā satyam asteyaṃ brahmacaryaṃ kṣamā dhṛtiḥ / dayārjavaṃ mitāhāraḥ śaucaṃ caiva yamā daśa // HYP_1.17 // tapaḥ santoṣa āstikyaṃ dānam īśvara-pūjanam / siddhānta-vākya-śravaṇaṃ hrīmatī ca tapo hutam / niyamā daśa samproktā yoga-śāstra-viśāradaiḥ // HYP_1.18 //
atha āsanam
haṭhasya prathamāṅgatvād āsanaṃ pūrvam ucyate / kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅga-lāghavam // HYP_1.19 // vaśiṣṭhādyaiś ca munibhir matsyendrādyaiś ca yogibhiḥ / aṅgīkṛtāny āsanāni kathyante kānicin mayā // HYP_1.20 // jānūrvor antare samyak kṛtvā pāda-tale ubhe / ṛju-kāyaḥ samāsīnaḥ svastikaṃ tat pracakṣate // HYP_1.21 // savye dakṣiṇa-gulphaṃ tu pṛṣṭha-pārśve niyojayet / dakṣiṇe'pi tathā savyaṃ gomukhaṃ gomukhākṛtiḥ // HYP_1.22 // ekaṃ pādaṃ tathaikasmin vinyased uruṇi sthiram / itarasmiṃs tathā coruṃ vīrāsanam itīritam // HYP_1.23 // gudaṃ nirudhya gulphābhyāṃ vyutkrameṇa samāhitaḥ / kūrmāsanaṃ bhaved etad iti yoga-vido viduḥ // HYP_1.24 // padmāsanaṃ tu saṃsthāpya jānūrvor antare karau / niveśya bhūmau saṃsthāpya vyomasthaṃ kukkuṭāsanam // HYP_1.25 // kukkuṭāsana-bandha-stho dorbhyāṃ sambadya kandharām / bhaved kūrmavad uttāna etad uttāna-kūrmakam // HYP_1.26 // pādāṅguṣṭhau tu pāṇibhyāṃ gṛhītvā śravaṇāvadhi / dhanur ākarṣaṇaṃ kuryād dhanur-āsanam ucyate // HYP_1.27 // vāmoru-mūlārpita-dakṣa-pādaṃ jānor bahir veṣṭita-vāma-pādam / pragṛhya tiṣṭhet parivartitāṅgaḥ śrī-matysanāthoditam āsanaṃ syāt // HYP_1.28 // matsyendra-pīṭhaṃ jaṭhara-pradīptiṃ pracaṇḍa-rug maṇḍala-khaṇḍanāstram / abhyāsataḥ kuṇḍalinī-prabodhaṃ candra-sthiratvaṃ ca dadāti puṃsām // HYP_1.29 // prasārya pādau bhuvi daṇḍa-rūpau dorbhyāṃ padāgra-dvitayaṃ gṛhītvā / jānūparinyasta-lalāṭa-deśo vased idaṃ paścimatānam āhuḥ // HYP_1.30 // iti paścimatānam āsanāgryaṃ pavanaṃ paścima-vāhinaṃ karoti / udayaṃ jaṭharānalasya kuryād udare kārśyam arogatāṃ ca puṃsām // HYP_1.31 // dharām avaṣṭabhya kara-dvayena tat-kūrpara-sthāpita-nābhi-pārśvaḥ / uccāsano daṇḍavad utthitaḥ khe māyūram etat pravadanti pīṭham // HYP_1.32 // harati sakala-rogān āśu gulmodarādīn abhibhavati ca doṣān āsanaṃ śrī-mayūram / bahu kadaśana-bhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kāla-kūṭam // HYP_1.33 // uttānaṃ śabavad bhūmau śayanaṃ tac chavāsanam / śavāsanaṃ śrānti-haraṃ citta-viśrānti-kārakam // HYP_1.34 // caturaśīty āsanāni śivena kathitāni ca / tebhyaś catuṣkam ādāya sārabhūtaṃ bravīmy aham // HYP_1.35 // siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ veti catuṣṭayam / śreṣṭhaṃ tatrāpi ca sukhe tiṣṭhet siddhāsane sadā // HYP_1.36 //
atha siddhāsanam- yoni-sthānakam aṅghri-mūla-ghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram / sthāṇuḥ saṃyamitendriyo'cala-dṛśā paśyed bhruvor antaraṃ hy etan mokṣa-kapāṭa-bheda-janakaṃ siddhāsanaṃ procyate // HYP_1.37 //
meṇḍhrād upari vinyasya savyaṃ gulphaṃ tathopari / gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet // HYP_1.38 // etat siddhāsanaṃ prāhur anye vajrāsanaṃ viduḥ / muktāsanaṃ vadanty eke prāhur guptāsanaṃ pare // HYP_1.39 // yameṣv iva mitāhāram ahiṃsā niyameṣv iva / mukhyaṃ sarvāsaneṣv ekaṃ siddhāḥ siddhāsanaṃ viduḥ // HYP_1.40 // caturaśīti-pīṭheṣu siddham eva sadābhyaset / dvāsaptati-sahasrāṇāṃ nāḍīnāṃ mala-śodhanam // HYP_1.41 // ātma-dhyāyī mitāhārī yāvad dvādaśa-vatsaram / sadā siddhāsanābhyāsād yogī niṣpattim āpnuyāt // HYP_1.42 // kim anyair bahubhiḥ pīṭhaiḥ siddhe siddhāsane sati / prāṇānile sāvadhāne baddhe kevala-kumbhake / utpadyate nirāyāsāt svayam evonmanī kalā // HYP_1.43 // tathaikāsminn eva dṛḍhe siddhe siddhāsane sati / bandha-trayam anāyāsāt svayam evopajāyate // HYP_1.44 // nāsanaṃ siddha-sadṛśaṃ na kumbhaḥ kevalopamaḥ / na khecarī-samā mudrā na nāda-sadṛśo layaḥ // HYP_1.45 //
atha padmāsanam- vāmorūpari dakṣiṇaṃ ca caraṇaṃ saṃsthāpya vāmaṃ tathā dakṣorūpari paścimena vidhinā dhṛtvā karābhyāṃ dṛḍham / aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet etad vyādhi-vināśa-kāri yamināṃ padmāsanaṃ procyate // HYP_1.46 //
uttānau caraṇau kṛtvā ūru-saṃsthau prayatnataḥ / ūru-madhye tathottānau pāṇī kṛtvā tato dṛśau // HYP_1.47 // nāsāgre vinyased rājad-anta-mūle tu jihvayā / uttambhya cibukaṃ vakṣasy utthāpy pavanaṃ śanaiḥ // HYP_1.48 // idaṃ padmāsanaṃ proktaṃ sarva-vyādhi-vināśanam / durlabhaṃ yena kenāpi dhīmatā labhyate bhuvi // HYP_1.49 //
kṛtvā sampuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi sannidhāya cibukaṃ dhyāyaṃś ca tac cetasi / vāraṃ vāram apānam ūrdhvam anilaṃ protsārayan pūritaṃ nyañcan prāṇam upaiti bodham atulaṃ śakti-prabhāvān naraḥ // HYP_1.50 //
padmāsane sthito yogī nāḍī-dvāreṇa pūritam / mārutaṃ dhārayed yas tu sa mukto nātra saṃśayaḥ // HYP_1.51 //
atha siṃhāsanam- gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipet / dakṣiṇe savya-gulphaṃ tu dakṣa-gulphaṃ tu savyake // HYP_1.52 // hastau tu jānvoḥ saṃsthāpya svāṅgulīḥ samprasārya ca / vyātta-vaktro nirīkṣeta nāsāgraṃ susamāhitaḥ // HYP_1.53 // siṃhāsanaṃ bhaved etat pūjitaṃ yogi-puṅgavaiḥ / bandha-tritaya-sandhānaṃ kurute cāsanottamam // HYP_1.54 //
atha bhadrāsanam- gulphau ca vṛṣaṇasyādhaḥ sīvanyāḥ pārśvayoḥ kṣipte / savya-gulphaṃ tathā savye dakṣa-gulphaṃ tu dakṣiṇe // HYP_1.55 // pārśva-pādau ca pāṇibhyāṃ dṛḍhaṃ baddhvā suniścalam / bhadrāsanaṃ bhaved etat sarva-vyādhi-vināśanam / gorakṣāsanam ity āhur idaṃ vai siddha-yoginaḥ // HYP_1.56 //
evam āsana-bandheṣu yogīndro vigata-śramaḥ / abhyasen nāḍikā-śuddhiṃ mudrādi-pavanī-kriyām // HYP_1.57 // āsanaṃ kumbhakaṃ citraṃ mudrākhyaṃ karaṇaṃ tathā / atha nādānusandhānam abhyāsānukramo haṭhe // HYP_1.58 // brahmacārī mitāhārī tyāgī yoga-parāyaṇaḥ / abdād ūrdhvaṃ bhavet siddho nātra kāryā vicāraṇā // HYP_1.59 // susnigdha-madhurāhāraś caturthāṃśa-vivarjitaḥ / bhujyate śiva-samprītyai mitāhāraḥ sa ucyate // HYP_1.60 //
kaṭvāmla-tīkṣṇa-lavaṇoṣṇa-harīta-śāka- sauvīra-taila-tila-sarṣapa-madya-matsyān / ājādi-māṃsa-dadhi-takra-kulatthakola- piṇyāka-hiṅgu-laśunādyam apathyam āhuḥ // HYP_1.61 //
bhojanam ahitaṃ vidyāt punar asyoṣṇī-kṛtaṃ rūkṣam / atilavaṇam amla-yuktaṃ kadaśana-śākotkaṃ varjyam // HYP_1.62 // vahni-strī-pathi-sevānām ādau varjanam ācaret // HYP_1.63 // tathā hi gorakṣa-vacanam- varjayed durjana-prāntaṃ vahni-strī-pathi-sevanam / prātaḥ-snānopavāsādi kāya-kleśa-vidhiṃ tathā // HYP_1.64 //
godhūma-śāli-yava-ṣāṣṭika-śobhanānnaṃ kṣīrājya-khaṇḍa-navanīta-siddhā-madhūni / śuṇṭhī-paṭola-kaphalādika-pañca-śākaṃ mudgādi-divyam udakaṃ ca yamīndra-pathyam // HYP_1.65 //
puṣṭaṃ sumadhuraṃ snigdhaṃ gavyaṃ dhātu-prapoṣaṇam / manobhilaṣitaṃ yogyaṃ yogī bhojanam ācaret // HYP_1.66 // yuvo vṛddho'tivṛddho vā vyādhito durbalo'pi vā / abhyāsāt siddhim āpnoti sarva-yogeṣv atandritaḥ // HYP_1.67 // kriyā-yuktasya siddhiḥ syād akriyasya kathaṃ bhavet / na śāstra-pāṭha-mātreṇa yoga-siddhiḥ prajāyate // HYP_1.68 // na veṣa-dhāraṇaṃ siddheḥ kāraṇaṃ na ca tat-kathā / kriyaiva kāraṇaṃ siddheḥ satyam etan na saṃśayaḥ // HYP_1.69 // pīṭhāni kumbhakāś citrā divyāni karaṇāni ca / sarvāṇy api haṭhābhyāse rāja-yoga-phalāvadhi // HYP_1.70 //
iti haṭha-pradīpikāyāṃ prathamopadeśaḥ /
(2) dvitīyopadeśaḥ
athāsane dṛdhe yogī vaśī hita-mitāśanaḥ / gurūpadiṣṭa-mārgeṇa prāṇāyāmān samabhyaset // HYP_2.1 // cale vāte calaṃ cittaṃ niścale niścalaṃ bhavet // HYP_2. yogī sthāṇutvam āpnoti tato vāyuṃ nirodhayet // HYP_2.2 // yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate / maraṇaṃ tasya niṣkrāntis tato vāyuṃ nirodhayet // HYP_2.3 // malākalāsu nāḍīṣu māruto naiva madhyagaḥ / kathaṃ syād unmanībhāvaḥ kārya-siddhiḥ kathaṃ bhavet // HYP_2.4 // śuddham eti yadā sarvaṃ nāḍī-cakraṃ malākulam / tadaiva jāyate yogī prāṇa-saṃgrahaṇe kṣamaḥ // HYP_2.5 // prāṇāyāmaṃ tataḥ kuryān nityaṃ sāttvikayā dhiyā / yathā suṣumṇā-nāḍīsthā malāḥ śuddhiṃ prayānti ca // HYP_2.6 // baddha-padmāsano yogī prāṇaṃ candreṇa pūrayet / dhārayitvā yathā-śakti bhūyaḥ sūryeṇa recayet // HYP_2.7 // prāṇaṃ sūryeṇa cākṛṣya pūrayed udaraṃ śanaiḥ / vidhivat kumbhakaṃ kṛtvā punaś candreṇa recayet // HYP_2.8 // yena tyajet tena pītvā dhārayed atirodhataḥ / recayec ca tato'nyena śanair eva na vegataḥ // HYP_2.9 //
prāṇaṃ ced iḍayā piben niyamitaṃ bhūyo'nyathā recayet pītvā piṅgalayā samīraṇam atho baddhvā tyajed vāmayā / sūrya-candramasor anena vidhinābhyāsaṃ sadā tanvatāṃ śuddhā nāḍi-gaṇā bhavanti yamināṃ māsa-trayād ūrdhvataḥ // HYP_2.10 //
prātar madhyandine sāyam ardha-rātre ca kumbhakān / śanair aśīti-paryantaṃ catur vāraṃ samabhyaset // HYP_2.11 // kanīyasi bhaved sveda kampo bhavati madhyame / uttame sthānam āpnoti tato vāyuṃ nibandhayet // HYP_2.12 // jalena śrama-jātena gātra-mardanam ācaret / dṛḍhatā laghutā caiva tena gātrasya jāyate // HYP_2.13 // abhyāsa-kāle prathame śastaṃ kṣīrājya-bhojanam / tato'bhyāse dṛḍhībhūte na tādṛṅ-niyama-grahaḥ // HYP_2.14 // yathā siṃho gajo vyāghro bhaved vaśyaḥ śanaiḥ śanaiḥ / tathaiva sevito vāyur anyathā hanti sādhakam // HYP_2.15 // prāṇāyāmena yuktena sarva-roga-kṣayo bhavet / ayuktābhyāsa-yogena sarva-roga-samudgamaḥ // HYP_2.16 // hikkā śvāsaś ca kāsaś ca śiraḥ-karṇākṣi-vedanāḥ / bhavanti vividhāḥ rogāḥ pavanasya prakopataḥ // HYP_2.17 // yuktaṃ yuktaṃ tyajed vāyuṃ yuktaṃ yuktaṃ ca pūrayet / yuktaṃ yuktaṃ ca badhnīyād evaṃ siddhim avāpnuyāt // HYP_2.18 // yadā tu nāḍī-śuddhiḥ syāt tathā cihnāni bāhyataḥ / kāyasya kṛśatā kāntis tadā jāyate niścitam // HYP_2.19 // yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam / nādābhivyaktir ārogyaṃ jāyate nāḍi-śodhanāt // HYP_2.20 // meda-śleṣmādhikaḥ pūrvaṃ ṣaṭ-karmāṇi samācaret / anyas tu nācaret tāni doṣāṇāṃ samabhāvataḥ // HYP_2.21 // dhautir bastis tathā netis trāṭakaṃ naulikaṃ tathā / kapāla-bhātiś caitāni ṣaṭ-karmāṇi pracakṣate // HYP_2.22 // karma ṣaṭkam idaṃ gopyaṃ ghaṭa-śodhana-kārakam / vicitra-guṇa-sandhāya pūjyate yogi-puṅgavaiḥ // HYP_2.23 //
tatra dhautiḥ- catur-aṅgula-vistāraṃ hasta-pañca-daśāyatam / gurūpadiṣṭa-mārgeṇa siktaṃ vastraṃ śanair graset / punaḥ pratyāharec caitad uditaṃ dhauti-karma tat // HYP_2.24 // kāsa-śvāsa-plīha-kuṣṭhaṃ kapharogāś ca viṃśatiḥ / dhauti-karma-prabhāveṇa prayānty eva na saṃśayaḥ // HYP_2.25 //
atha bastiḥ- nābhi-daghna-jale pāyau nyasta-nālotkaṭāsanaḥ / ādhārākuñcanaṃ kuryāt kṣālanaṃ basti-karma tat // HYP_2.26 // gulma-plīhodaraṃ cāpi vāta-pitta-kaphodbhavāḥ / basti-karma-prabhāveṇa kṣīyante sakalāmayāḥ // HYP_2.27 // dhāntvadriyāntaḥ-karaṇa-prasādaṃ dadhāc ca kāntiṃ dahana-pradīptam / aśeṣa-doṣopacayaṃ nihanyād abhyasyamānaṃ jala-basti-karma // HYP_2.28 //
atha netiḥ- sūtraṃ vitasti-susnigdhaṃ nāsānāle praveśayet / mukhān nirgamayec caiṣā netiḥ siddhair nigadyate // HYP_2.29 // kapāla-śodhinī caiva divya-dṛṣṭi-pradāyinī / jatrūrdhva-jāta-rogaughaṃ netir āśu nihanti ca // HYP_2.30 //
atha trāṭakam- nirīkṣen niścala-dṛśā sūkṣma-lakṣyaṃ samāhitaḥ / aśru-sampāta-paryantam ācāryais trāṭakaṃ smṛtam // HYP_2.31 // mocanaṃ netra-rogāṇāṃ tandādrīṇāṃ kapāṭakam / yatnatas trāṭakaṃ gopyaṃ yathā hāṭaka-peṭakam // HYP_2.32 //
atha nauliḥ- amandāvarta-vegena tundaṃ savyāpasavyataḥ / natāṃso bhrāmayed eṣā nauliḥ siddhaiḥ praśasyate // HYP_2.33 // mandāgni-sandīpana-pācanādi-sandhāpikānanda-karī sadaiva / aśeṣa-doṣa-maya-śoṣaṇī ca haṭha-kriyā maulir iyaṃ ca nauliḥ // HYP_2.34 //
atha kapālabhātiḥ- bhastrāval loha-kārasya reca-pūrau sasambhramau / kapālabhātir vikhyātā kapha-doṣa-viśoṣaṇī // HYP_2.35 //
ṣaṭ-karma-nirgata-sthaulya-kapha-doṣa-malādikaḥ / prāṇāyāmaṃ tataḥ kuryād anāyāsena siddhyati // HYP_2.36 // prāṇāyāmair eva sarve praśuṣyanti malā iti / ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam // HYP_2.37 //
atha gaja-karaṇī- udara-gata-padārtham udvamanti pavanam apānam udīrya kaṇṭha-nāle / krama-paricaya-vaśya-nāḍi-cakrā gaja-karaṇīti nigadyate haṭhajñaiḥ // HYP_2.38 //
brahmādayo'pi tridaśāḥ pavanābhyāsa-tatparāḥ / abhūvann antaka-bhyāt tasmāt pavanam abhyaset // HYP_2.39 // yāvad baddho marud dehe yāvac cittaṃ nirākulam / yāvad dṛṣṭir bhruvor madhye tāvat kāla-bhayaṃ kutaḥ // HYP_2.40 // vidhivat prāṇa-saṃyāmair nāḍī-cakre viśodhite / suṣumṇā-vadanaṃ bhittvā sukhād viśati mārutaḥ // HYP_2.41 //
atha manonmanī- mārute madhya-saṃcāre manaḥ-sthairyaṃ prajāyate / yo manaḥ-susthirī-bhāvaḥ saivāvasthā manonmanī // HYP_2.42 // tat-siddhaye vidhānajñāś citrān kurvanti kumbhakān / vicitra kumbhakābhyāsād vicitrāṃ siddhim āpnuyāt // HYP_2.43 //
atha kumbhaka-bhedāḥ-- sūrya-bhedanam ujjāyī sītkārī śītalī tathā / bhastrikā bhrāmarī mūrcchā plāvinīty aṣṭa-kumbhakāḥ // HYP_2.44 // pūrakānte tu kartavyo bandho jālandharābhidhaḥ / kumbhakānte recakādau kartavyas tūḍḍiyānakaḥ // HYP_2.45 // adhastāt kuñcanenāśu kaṇṭha-saṅkocane kṛte / madhye paścima-tānena syāt prāṇo brahma-nāḍigaḥ // HYP_2.46 // āpānam ūrdhvam utthāpya prāṇaṃ kaṇṭhād adho nayet / yogī jarā-vimuktaḥ san ṣoḍaśābda-vayā bhavet // HYP_2.47 //
atha sūrya-bhedanam- āsane sukhade yogī baddhvā caivāsanaṃ tataḥ / dakṣa-nāḍyā samākṛṣya bahiḥsthaṃ pavanaṃ śanaiḥ // HYP_2.48 // ākeśād ānakhāgrāc ca nirodhāvadhi kumbhayet / tataḥ śanaiḥ savya-nāḍyā recayet pavanaṃ śanaiḥ // HYP_2.49 // kapāla-śodhanaṃ vāta-doṣa-ghnaṃ kṛmi-doṣa-hṛt / punaḥ punar idaṃ kāryaṃ sūrya-bhedanam uttamam // HYP_2.50 //
atha ujjāyī- mukhaṃ saṃyamya nāḍībhyām ākṛṣya pavanaṃ śanaiḥ / yathā lagati kaṇṭhāt tu hṛdayāvadhi sa-svanam // HYP_2.51 // pūrvavat kumbhayet prāṇaṃ recayed iḍayā tathā / śleṣma-doṣa-haraṃ kaṇṭhe dehānala-vivardhanam // HYP_2.52 // nāḍī-jalodarādhātu-gata-doṣa-vināśanam / gacchatā tiṣṭhatā kāryam ujjāyy ākhyaṃ tu kumbhakam // HYP_2.53 //
atha sītkārī- sītkāṃ kuryāt tathā vaktre ghrāṇenaiva vijṛmbhikām / evam abhyāsa-yogena kāma-devo dvitīyakaḥ // HYP_2.54 // yoginī cakra-saṃmānyaḥ sṛṣṭi-saṃhāra-kārakaḥ / na kṣudhā na tṛṣā nidrā naivālasyaṃ prajāyate // HYP_2.55 // bhavet sattvaṃ ca dehasya sarvopadrava-varjitaḥ / anena vidhinā satyaṃ yogīndro bhūmi-maṇḍale // HYP_2.56 //
atha śītalī- jihvayā vāyum ākṛṣya pūrvavat kumbha-sādhanam / śanakair ghrāṇa-randhrābhyāṃ recayet pavanaṃ sudhīḥ // HYP_2.57 // gulma-plīhādikān rogān jvaraṃ pittaṃ kṣudhāṃ tṛṣām / viṣāṇi śītalī nāma kumbhikeyaṃ nihanti hi // HYP_2.58 //
atha bhastrikā- ūrvor upari saṃsthāpya śubhe pāda-tale ubhe / padmāsanaṃ bhaved etat sarva-pāpa-praṇāśanam // HYP_2.59 // samyak padmāsanaṃ baddhvā sama-grīvodaraḥ sudhīḥ / mukhaṃ saṃyamya yatnena prāṇaṃ ghrāṇena recayet // HYP_2.60 // yathā lagati hṛt-kaṇṭhe kapālāvadhi sa-svanam / vegena pūrayec cāpi hṛt-padmāvadhi mārutam // HYP_2.61 // punar virecayet tadvat pūrayec ca punaḥ punaḥ / yathaiva lohakāreṇa bhastrā vegena cālyate // HYP_2.62 // tathaiva sva-śarīra-sthaṃ cālayet pavanaṃ dhiyā / yadā śramo bhaved dehe tadā sūryeṇa pūrayet // HYP_2.63 // yathodaraṃ bhavet pūrṇam anilena tathā laghu / dhārayen nāsikāṃ madhyā-tarjanībhyāṃ vinā dṛḍham // HYP_2.64 // vidhivat kumbhakaṃ kṛtvā recayed iḍayānilam / vāta-pitta-śleṣma-haraṃ śarīrāgni-vivardhanam // HYP_2.65 // kuṇḍalī bodhakaṃ kṣipraṃ pavanaṃ sukhadaṃ hitam / brahma-nāḍī-mukhe saṃstha-kaphādy-argala-nāśanam // HYP_2.66 // samyag gātra-samudbhūta-granthi-traya-vibhedakam / viśeṣeṇaiva kartavyaṃ bhastrākhyaṃ kumbhakaṃ tv idam // HYP_2.67 //
atha bhrāmarī- vegād ghoṣaṃ pūrakaṃ bhṛṅga-nādaṃ bhṛṅgī-nādaṃ recakaṃ manda-mandam / yogīndrāṇī̀am evam abhyāsa-yogāc citte jātā kācid ānanda-līlā // HYP_2.68 //
atha mūrcchā- pūrakānte gāḍhataraṃ baddhvā jālandharaṃ śanaiḥ / recayen mūrcchākhyeyaṃ mano-mūrcchā sukha-pradā // HYP_2.69 //
atha plāvinī- antaḥ pravartitodāra-mārutāpūritodaraḥ / payasy agādhe'pi sukhāt plavate padma-patravat // HYP_2.70 //
prāṇāyāmas tridhā prokto reca-pūraka-kumbhakaiḥ / sahitaḥ kevalaś ceti kumbhako dvividho mataḥ // HYP_2.71 // yāvat kevala-siddhiḥ syāt sahitaṃ tāvad abhyaset / recakaṃ pūrakaṃ muktvā sukhaṃ yad vāyu-dhāraṇam // HYP_2.72 // prāṇāyāmo'yam ity uktaḥ sa vai kevala-kumbhakaḥ / kumbhake kevale siddhe reca-pūraka-varjite // HYP_2.73 // na tasya durlabhaṃ kiṃcit triṣu lokeṣu vidyate / śaktaḥ kevala-kumbhena yatheṣṭaṃ vāyu-dhāraṇāt // HYP_2.74 // rāja-yoga-padaṃ cāpi labhate nātra saṃśayaḥ / kumbhakāt kuṇḍalī-bodhaḥ kuṇḍalī-bodhato bhavet / anargalā suṣumṇā ca haṭha-siddhiś ca jāyate // HYP_2.75 // haṭhaṃ vinā rājayogo rāja-yogaṃ vinā haṭhaḥ / na sidhyati tato yugmam āniṣpatteḥ samabhyaset // HYP_2.76 // kumbhaka-prāṇa-rodhānte kuryāc cittaṃ nirāśrayam / evam abhyāsa-yogena rāja-yoga-padaṃ vrajet // HYP_2.77 //
vapuḥ kṛśatvaṃ vadane prasannatā nāda-sphuṭatvaṃ nayane sunirmale / arogatā bindu-jayo'gni-dīpanaṃ nāḍī-viśuddhir haṭha-siddhi-lakṣaṇam // HYP_2.78 //
iti haṭha-pradīpikāyāṃ dvitīyopadeśaḥ /
tṛtīyopadeśaḥ
sa-śaila-vana-dhātrīṇāṃ yathādhāro'hi-nāyakaḥ / sarveṣāṃ yoga-tantrāṇāṃ tathādhāro hi kuṇḍalī // HYP_3.1 // suptā guru-prasādena yadā jāgarti kuṇḍalī / tadā sarvāṇi padmāni bhidyante granthayo'pi ca // HYP_3.2 // prāṇasya śūnya-padavī tadā rājapathāyate / tadā cittaṃ nirālambaṃ tadā kālasya vañcanam // HYP_3.3 // suṣumṇā śūnya-padavī brahma-randhraḥ mahāpathaḥ / śmaśānaṃ śāmbhavī madhya-mārgaś cety eka-vācakāḥ // HYP_3.4 // tasmāt sarva-prayatnena prabodhayitum īśvarīm / brahma-dvāra-mukhe suptāṃ mudrābhyāsaṃ samācaret // HYP_3.5 // mahāmudrā mahābandho mahāvedhaś ca khecarī / uḍḍīyānaṃ mūlabandhaś ca bandho jālandharābhidhaḥ // HYP_3.6 // karaṇī viparītākhyā vajrolī śakti-cālanam / idaṃ hi mudrā-daśakaṃ jarā-maraṇa-nāśanam // HYP_3.7 // ādināthoditaṃ divyam aṣṭaiśvarya-pradāyakam / vallabhaṃ sarva-siddhānāṃ durlabhaṃ marutām api // HYP_3.8 // gopanīyaṃ prayatnena yathā ratna-karaṇḍakam / kasyacin naiva vaktavyaṃ kula-strī-surataṃ yathā // HYP_3.9 //
atha mahā-mudrā- pāda-mūlena vāmena yoniṃ sampīḍya dakṣiṇām / prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham // HYP_3.10 // kaṇṭhe bandhaṃ samāropya dhārayed vāyum ūrdhvataḥ / yathā daṇḍa-hataḥ sarpo daṇḍākāraḥ prajāyate // HYP_3.11 // ṛjvībhūtā tathā śaktiḥ kuṇḍalī sahasā bhavet / tadā sā maraṇāvasthā jāyate dvipuṭāśrayā // HYP_3.12 // tataḥ śanaiḥ śanair eva recayen naiva vegataḥ / mahā-mudrāṃ ca tenaiva vadanti vibudhottamāḥ // HYP_3.13 // iyaṃ khalu mahāmudrā mahā-siddhaiḥ pradarśitā / mahā-kleśādayo doṣāḥ kṣīyante maraṇādayaḥ / mahā-mudrāṃ ca tenaiva vadanti vibudhottamāḥ // HYP_3.14 // candrāṅge tu samabhyasya sūryāṅge punar abhyaset / yāvat-tulyā bhavet saṅkhyā tato mudrāṃ visarjayet // HYP_3.15 // na hi pathyam apathyaṃ vā rasāḥ sarve'pi nīrasāḥ / api bhuktaṃ viṣaṃ ghoraṃ pīyūṣam api jīryati // HYP_3.16 // kṣaya-kuṣṭha-gudāvarta-gulmājīrṇa-purogamāḥ / tasya doṣāḥ kṣayaṃ yānti mahāmudrāṃ tu yo'bhyaset // HYP_3.17 // kathiteyaṃ mahāmudrā mahā-siddhi-karā nṝṇām / gopanīyā prayatnena na deyā yasya kasyacit // HYP_3.18 //
atha mahā-bandhaḥ- pārṣṇiṃ vāmasya pādasya yoni-sthāne niyojayet / vāmorūpari saṃsthāpya dakṣiṇaṃ caraṇaṃ tathā // HYP_3.19 // pūrayitvā tato vāyuṃ hṛdaye cubukaṃ dṛḍham / niṣpīḍyaṃ vāyum ākuñcya mano-madhye niyojayet // HYP_3.20 // dhārayitvā yathā-śakti recayed anilaṃ śanaiḥ / savyāṅge tu samabhyasya dakṣāṅge punar abhyaset // HYP_3.21 // matam atra tu keṣāṃcit kaṇṭha-bandhaṃ vivarjayet / rāja-danta-stha-jihvāyā bandhaḥ śasto bhaved iti // HYP_3.22 // ayaṃ tu sarva-nāḍīnām ūrdhvaṃ gati-nirodhakaḥ / ayaṃ khalu mahā-bandho mahā-siddhi-pradāyakaḥ // HYP_3.23 // kāla-pāśa-mahā-bandha-vimocana-vicakṣaṇaḥ / triveṇī-saṅgamaṃ dhatte kedāraṃ prāpayen manaḥ // HYP_3.24 // rūpa-lāvaṇya-sampannā yathā strī puruṣaṃ vinā / mahā-mudrā-mahā-bandhau niṣphalau vedha-varjitau // HYP_3.25 //
atha mahā-vedhaḥ- mahā-bandha-sthito yogī kṛtvā pūrakam eka-dhīḥ / vāyūnāṃ gatim āvṛtya nibhṛtaṃ kaṇṭha-mudrayā // HYP_3.26 // sama-hasta-yugo bhūmau sphicau sanāḍayec chanaiḥ / puṭa-dvayam atikramya vāyuḥ sphurati madhyagaḥ // HYP_3.27 // soma-sūryāgni-sambandho jāyate cāmṛtāya vai / mṛtāvasthā samutpannā tato vāyuṃ virecayet // HYP_3.28 // mahā-vedho'yam abhyāsān mahā-siddhi-pradāyakaḥ / valī-palita-vepa-ghnaḥ sevyate sādhakottamaiḥ // HYP_3.29 // etat trayaṃ mahā-guhyaṃ jarā-mṛtyu-vināśanam / vahni-vṛddhi-karaṃ caiva hy aṇimādi-guṇa-pradam // HYP_3.30 // aṣṭadhā kriyate caiva yāme yāme dine dine / puṇya-saṃbhāra-sandhāya pāpaugha-bhiduraṃ sadā / samyak-śikṣāvatām evaṃ svalpaṃ prathama-sādhanam // HYP_3.31 //
atha khecarī- kapāla-kuhare jihvā praviṣṭā viparītagā / bhruvor antargatā dṛṣṭir mudrā bhavati khecarī // HYP_3.32 // chedana-cālana-dohaiḥ kalāṃ krameṇātha vardhayet tāvat / sā yāvad bhrū-madhyaṃ spṛśati tadā khecarī-siddhiḥ // HYP_3.33 // snuhī-patra-nibhaṃ śastraṃ sutīkṣṇaṃ snigdha-nirmalam / samādāya tatas tena roma-mātraṃ samucchinet // HYP_3.34 // tataḥ saindhava-pathyābhyāṃ cūrṇitābhyāṃ pragharṣayet / punaḥ sapta-dine prāpte roma-mātraṃ samucchinet // HYP_3.35 // evaṃ krameṇa ṣaṇ-māsaṃ nityaṃ yuktaḥ samācaret / ṣaṇmāsād rasanā-mūla-śirā-bandhaḥ praṇaśyati // HYP_3.36 // kalāṃ parāṅmukhīṃ kṛtvā tripathe pariyojayet / sā bhavet khecarī mudrā vyoma-cakraṃ tad ucyate // HYP_3.37 // rasanām ūrdhvagāṃ kṛtvā kṣaṇārdham api tiṣṭhati / viṣair vimucyate yogī vyādhi-mṛtyu-jarādibhiḥ // HYP_3.38 // na rogo maraṇaṃ tandrā na nidrā na kṣudhā tṛṣā / na ca mūrcchā bhavet tasya yo mudrāṃ vetti khecarīm // HYP_3.39 // pīḍyate na sa rogeṇa lipyate na ca karmaṇā / bādhyate na sa kālena yo mudrāṃ vetti khecarīm // HYP_3.40 // cittaṃ carati khe yasmāj jihvā carati khe gatā / tenaiṣā khecarī nāma mudrā siddhair nirūpitā // HYP_3.41 // khecaryā mudritaṃ yena vivaraṃ lambikordhvataḥ / na tasya kṣarate binduḥ kāminyāḥ śleṣitasya ca // HYP_3.42 // calito'pi yadā binduḥ samprāpto yoni-maṇḍalam / vrajaty ūrdhvaṃ hṛtaḥ śaktyā nibaddho yoni-mudrayā // HYP_3.43 // ūrdhva-jihvaḥ sthiro bhūtvā somapānaṃ karoti yaḥ / māsārdhena na sandeho mṛtyuṃ jayati yogavit // HYP_3.44 // nityaṃ soma-kalā-pūrṇaṃ śarīraṃ yasya yoginaḥ / takṣakeṇāpi daṣṭasya viṣaṃ tasya na sarpati // HYP_3.45 // indhanāni yathā vahnis taila-varti ca dīpakaḥ / tathā soma-kalā-pūrṇaṃ dehī dehaṃ na muñcati // HYP_3.46 // gomāṃsaṃ bhakṣayen nityaṃ pibed amara-vāruṇīm / kulīnaṃ tam ahaṃ manye cetare kula-ghātakāḥ // HYP_3.47 // go-śabdenoditā jihvā tat praveśo hi tāluni / go-māṃsa-bhakṣaṇaṃ tat tu mahā-pātaka-nāśanam // HYP_3.48 // jihvā-praveśa-sambhūta-vahninotpāditaḥ khalu / candrāt sravati yaḥ sāraḥ sā syād amara-vāruṇī // HYP_3.49 //
cumbantī yadi lambikāgram aniśaṃ jihvā-rasa-syandinī sa-kṣārā kaṭukāmla-dugdha-sadṛśī madhvājya-tulyā tathā / vyādhīnāṃ haraṇaṃ jarānta-karaṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭa-guṇitaṃ siddhāṅganākarṣaṇam // HYP_3.50 //
mūrdhnaḥ ṣoḍaśa-patra-padma-galitaṃ prāṇād avāptaṃ haṭhād ūrdvhāsyo rasanāṃ niyamya vivare śaktiṃ parāṃ cintayan / utkallola-kalā-jalaṃ ca vimalaṃ dhārāmayaṃ yaḥ piben nirvyādhiḥ sa mṛṇāla-komala-vapur yogī ciraṃ jīvati // HYP_3.51 //
yat prāleyaṃ prahita-suṣiraṃ meru-mūrdhāntara-sthaṃ tasmiṃs tattvaṃ pravadati sudhīs tan-mukhaṃ nimnagānām / candrāt sāraḥ sravati vapuṣas tena mṛtyur narāṇāṃ tad badhnīyāt sukaraṇam adho nānyathā kāya-siddhiḥ // HYP_3.52 //
suṣiraṃ jñāna-janakaṃ pañca-srotaḥ-samanvitam / tiṣṭhate khecarī mudrā tasmin śūnye nirañjane // HYP_3.53 // ekaṃ sṛṣṭimayaṃ bījam ekā mudrā ca khecarī / eko devo nirālamba ekāvasthā manonmanī // HYP_3.54 //
atha uḍḍīyāna-bandhaḥ- baddho yena suṣumṇāyāṃ prāṇas tūḍḍīyate yataḥ / tasmād uḍḍīyanākhyo'yaṃ yogibhiḥ samudāhṛtaḥ // HYP_3.55 // uḍḍīnaṃ kurute yasmād aviśrāntaṃ mahā-khagaḥ / uḍḍīyānaṃ tad eva syāt tava bandho'bhidhīyate // HYP_3.56 // udare paścimaṃ tānaṃ nābher ūrdhvaṃ ca kārayet / uḍḍīyāno hy asau bandho mṛtyu-mātaṅga-kesarī // HYP_3.57 // uḍḍīyānaṃ tu sahajaṃ guruṇā kathitaṃ sadā / abhyaset satataṃ yas tu vṛddho'pi taruṇāyate // HYP_3.58 // nābher ūrdhvam adhaś cāpi tānaṃ kuryāt prayatnataḥ / ṣaṇmāsam abhyasen mṛtyuṃ jayaty eva na saṃśayaḥ // HYP_3.59 // sarveṣām eva bandhānāṃ uttamo hy uḍḍīyānakaḥ / uḍḍiyāne dṛḍhe bandhe muktiḥ svābhāvikī bhavet // HYP_3.60 //
atha mūla-bandhaḥ- pārṣṇi-bhāgena sampīḍya yonim ākuñcayed gudam / apānam ūrdhvam ākṛṣya mūla-bandho'bhidhīyate // HYP_3.61 // adho-gatim apānaṃ vā ūrdhvagaṃ kurute balāt / ākuñcanena taṃ prāhur mūla-bandhaṃ hi yoginaḥ // HYP_3.62 // gudaṃ pārṣṇyā tu sampīḍya vāyum ākuñcayed balāt / vāraṃ vāraṃ yathā cordhvaṃ samāyāti samīraṇaḥ // HYP_3.63 // prāṇāpānau nāda-bindū mūla-bandhena caikatām / gatvā yogasya saṃsiddhiṃ yacchato nātra saṃśayaḥ // HYP_3.64 // apāna-prāṇayor aikyaṃ kṣayo mūtra-purīṣayoḥ / yuvā bhavati vṛddho'pi satataṃ mūla-bandhanāt // HYP_3.65 // apāna ūrdhvage jāte prayāte vahni-maṇḍalam / tadānala-śikhā dīrghā jāyate vāyunāhatā // HYP_3.66 // tato yāto vahny-apānau prāṇam uṣṇa-svarūpakam / tenātyanta-pradīptas tu jvalano dehajas tathā // HYP_3.67 // tena kuṇḍalinī suptā santaptā samprabudhyate / daṇḍāhatā bhujaṅgīva niśvasya ṛjutāṃ vrajet // HYP_3.68 // bilaṃ praviṣṭeva tato brahma-nāḍyaṃ taraṃ vrajet / tasmān nityaṃ mūla-bandhaḥ kartavyo yogibhiḥ sadā // HYP_3.69 //
atha jalandhara-bandhaḥ- kaṇṭham ākuñcya hṛdaye sthāpayec cibukaṃ dṛḍham / bandho jālandharākhyo'yaṃ jarā-mṛtyu-vināśakaḥ // HYP_3.70 // badhnāti hi sirājālam adho-gāmi nabho-jalam / tato jālandharo bandhaḥ kaṇṭha-duḥkhaugha-nāśanaḥ // HYP_3.71 // jālandhare kṛte bandhe kaṇṭha-saṃkoca-lakṣaṇe / na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati // HYP_3.72 // kaṇṭha-saṃkocanenaiva dve nāḍyau stambhayed dṛḍham / madhya-cakram idaṃ jñeyaṃ ṣoḍaśādhāra-bandhanam // HYP_3.73 // mūla-sthānaṃ samākuñcya uḍḍiyānaṃ tu kārayet / iḍāṃ ca piṅgalāṃ baddhvā vāhayet paścime pathi // HYP_3.74 // anenaiva vidhānena prayāti pavano layam / tato na jāyate mṛtyur jarā-rogādikaṃ tathā // HYP_3.75 // bandha-trayam idaṃ śreṣṭhaṃ mahā-siddhaiś ca sevitam / sarveṣāṃ haṭha-tantrāṇāṃ sādhanaṃ yogino viduḥ // HYP_3.76 // yat kiṃcit sravate candrād amṛtaṃ divya-rūpiṇaḥ / tat sarvaṃ grasate sūryas tena piṇḍo jarāyutaḥ // HYP_3.77 //
atha viparīta-karaṇī mudrā- tatrāsti karaṇaṃ divyaṃ sūryasya mukha-vañcanam / gurūpadeśato jñeyaṃ na tu śāstrārtha-koṭibhiḥ // HYP_3.78 // ūrdhva-nābher adhas tālor ūrdhvaṃ bhānur adhaḥ śaśī / karaṇī viparītākhā guru-vākyena labhyate // HYP_3.79 // nityam abhyāsa-yuktasya jaṭharāgni-vivardhanī / āhāro bahulas tasya sampādyaḥ sādhakasya ca // HYP_3.80 // alpāhāro yadi bhaved agnir dahati tat-kṣaṇāt / adhaḥ-śirāś cordhva-pādaḥ kṣaṇaṃ syāt prathame dine // HYP_3.81 // kṣaṇāc ca kiṃcid adhikam abhyasec ca dine dine / valitaṃ palitaṃ caiva ṣaṇmāsordhvaṃ na dṛśyate / yāma-mātraṃ tu yo nityam abhyaset sa tu kālajit // HYP_3.82 //
atha vajrolī- svecchayā vartamāno'pi yogoktair niyamair vinā / vajrolīṃ yo vijānāti sa yogī siddhi-bhājanam // HYP_3.83 // tatra vastu-dvayaṃ vakṣye durlabhaṃ yasya kasyacit / kṣīraṃ caikaṃ dvitīyaṃ tu nārī ca vaśa-vartinī // HYP_3.84 // mehanena śanaiḥ samyag ūrdhvākuñcanam abhyaset / puruṣo'py athavā nārī vajrolī-siddhim āpnuyāt // HYP_3.85 // yatnataḥ śasta-nālena phūtkāraṃ vajra-kandare / śanaiḥ śanaiḥ prakurvīta vāyu-saṃcāra-kāraṇāt // HYP_3.86 // nārī-bhage padad-bindum abhyāsenordhvam āharet / calitaṃ ca nijaṃ bindum ūrdhvam ākṛṣya rakṣayet // HYP_3.87 // evaṃ saṃrakṣayed binduṃ jayati yogavit / maraṇaṃ bindu-pātena jīvanaṃ bindu-dhāraṇāt // HYP_3.88 // sugandho yogino dehe jāyate bindu-dhāraṇāt / yāvad binduḥ sthiro dehe tāvat kāla-bhayaṃ kutaḥ // HYP_3.89 // cittāyattaṃ nṝṇāṃ śukraṃ śukrāyattaṃ ca jīvitam / tasmāc chukraṃ manaś caiva rakṣaṇīyaṃ prayatnataḥ // HYP_3.90 // ṛtumatyā rajo'py evaṃ nijaṃ binduṃ ca rakṣayet / meḍhreṇākarṣayed ūrdhvaṃ samyag abhyāsa-yoga-vit // HYP_3.91 //
atha sahajoliḥ- sahajoliś cāmarolir vajrolyā bheda ekataḥ / jale subhasma nikṣipya dagdha-gomaya-sambhavam // HYP_3.92 // vajrolī-maithunād ūrdhvaṃ strī-puṃsoḥ svāṅga-lepanam / āsīnayoḥ sukhenaiva mukta-vyāpārayoḥ kṣaṇāt // HYP_3.93 // sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā / ayaṃ śubha-karo yogo bhoga-yukto'pi muktidaḥ // HYP_3.94 // ayaṃ yogaḥ puṇyavatāṃ dhīrāṇāṃ tattva-darśinām / nirmatsarāṇāṃ vai sidhyen na tu matsara-śālinām // HYP_3.95 //
atha amarolī- pittolbaṇatvāt prathamāmbu-dhārāṃ vihāya niḥsāratayānty adhārām / niṣevyate śītala-madhya-dhārā kāpālike khaṇḍamate'marolī // HYP_3.96 //
amarīṃ yaḥ piben nityaṃ nasyaṃ kurvan dine dine / vajrolīm abhyaset samyak sāmarolīti kathyate // HYP_3.97 // abhyāsān niḥsṛtāṃ cāndrīṃ vibhūtyā saha miśrayet / dhārayed uttamāṅgeṣu divya-dṛṣṭiḥ prajāyate // HYP_3.98 // puṃso binduṃ samākuñcya samyag abhyāsa-pāṭavāt / yadi nārī rajo rakṣed vajrolyā sāpi yoginī // HYP_3.99 // tasyāḥ kiṃcid rajo nāśaṃ na gacchati na saṃśayaḥ / tasyāḥ śarīre nādaś ca bindutām eva gacchati // HYP_3.100 // sa bindus tad rajaś caiva ekībhūya svadehagau / vajroly-abhyāsa-yogena sarva-siddhiṃ prayacchataḥ // HYP_3.101 // rakṣed ākuñcanād ūrdhvaṃ yā rajaḥ sā hi yoginī / atītānāgataṃ vetti khecarī ca bhaved dhruvam // HYP_3.102 // deha-siddhiṃ ca labhate vajroly-abhyāsa-yogataḥ / ayaṃ puṇya-karo yogo bhoge bhukte'pi muktidaḥ // HYP_3.103 //
atha śakti-cālanam- kuṭilāṅgī kuṇḍalinī bhujaṅgī śaktir īśvarī / kuṇḍaly arundhatī caite śabdāḥ paryāya-vācakāḥ // HYP_3.104 // udghāṭayet kapāṭaṃ tu yathā kuṃcikayā haṭhāt / kuṇḍalinyā tathā yogī mokṣadvāraṃ vibhedayet // HYP_3.105 // yena mārgeṇa gantavyaṃ brahma-sthānaṃ nirāmayam / mukhenācchādya tad vāraṃ prasuptā parameśvarī // HYP_3.106 // kandordhve kuṇḍalī śaktiḥ suptā mokṣāya yoginām / bandhanāya ca mūḍhānāṃ yas tāṃ vetti sa yogavit // HYP_3.107 // kuṇḍalī kuṭilākārā sarpavat parikīrtitā / sā śaktiś cālitā yena sa mukto nātra saṃśayaḥ // HYP_3.108 // gaṅgā-yamunayor madhye bāla-raṇḍāṃ tapasvinīm / balātkāreṇa gṛhṇīyāt tad viṣṇoḥ paramaṃ padam // HYP_3.109 // iḍā bhagavatī gaṅgā piṅgalā yamunā nadī / iḍā-piṅgalayor madhye bālaraṇḍā ca kuṇḍalī // HYP_3.110 // pucche pragṛhya bhujaṅgīṃ suptām udbodhayec ca tām / nidrāṃ vihāya sā śaktir ūrdhvam uttiṣṭhate haṭhāt // HYP_3.111 //
avasthitā caiva phaṇāvatī sā prātaś ca sāyaṃ praharārdha-mātram / prapūrya sūryāt paridhāna-yuktyā pragṛhya nityaṃ paricālanīyā // HYP_3.112 //
ūrdhvaṃ vitasti-mātraṃ tu vistāraṃ caturaṅgulam / mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbara-lakṣaṇam // HYP_3.113 // sati vajrāsane pādau karābhyāṃ dhārayed dṛḍham / gulpha-deśa-samīpe ca kandaṃ tatra prapīḍayet // HYP_3.114 // vajrāsane sthito yogī cālayitvā ca kuṇḍalīm / kuryād anantaraṃ bhastrāṃ kuṇḍalīm āśu bodhayet // HYP_3.115 // bhānor ākuñcanaṃ kuryāt kuṇḍalīṃ cālayet tataḥ / mṛtyu-vaktra-gatasyāpi tasya mṛtyu-bhayaṃ kutaḥ // HYP_3.116 // muhūrta-dvaya-paryantaṃ nirbhayaṃ cālanād asau / ūrdhvam ākṛṣyate kiṃcit suṣumṇāyāṃ samudgatā // HYP_3.117 // tena kuṇḍalinī tasyāḥ suṣumṇāyā mukhaṃ dhruvam / jahāti tasmāt prāṇo'yaṃ suṣumṇāṃ vrajati svataḥ // HYP_3.118 // tasmāt saṃcālayen nityaṃ sukha-suptām arundhatīm / tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate // HYP_3.119 // yena saṃcālitā śaktiḥ sa yogī siddhi-bhājanam / kim atra bahunoktena kālaṃ jayati līlayā // HYP_3.120 // brahmacarya-ratasyaiva nityaṃ hita-mitāśinaḥ / maṇḍalād dṛśyate siddhiḥ kuṇḍaly-abhyāsa-yoginaḥ // HYP_3.121 // kuṇḍalīṃ cālayitvā tu bhastrāṃ kuryād viśeṣataḥ / evam abhyasyato nityaṃ yamino yama-bhīḥ kutaḥ // HYP_3.122 // dvā-saptati-sahasrāṇāṃ nāḍīnāṃ mala-śodhane / kutaḥ prakṣālanopāyaḥ kuṇḍaly-abhyasanād ṛte // HYP_3.123 // iyaṃ tu madhyamā nāḍī dṛḍhābhyāsena yoginām / āsana-prāṇa-saṃyāma-mudrābhiḥ saralā bhavet // HYP_3.124 // abhyāse tu vinidrāṇāṃ mano dhṛtvā samādhinā / rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati // HYP_3.125 // rāja-yogaṃ vinā pṛthvī rāja-yogaṃ vinā niśā / rāja-yogaṃ vinā mudrā vicitrāpi na śobhate // HYP_3.126 // mārutasya vidhiṃ sarvaṃ mano-yuktaṃ samabhyaset / itaratra na kartavyā mano-vṛttir manīṣiṇā // HYP_3.127 // iti mudrā daśa proktā ādināthena śambhunā / ekaikā tāsu yamināṃ mahā-siddhi-pradāyinī // HYP_3.128 // upadeśaṃ hi mudrāṇāṃ yo datte sāmpradāyikam / sa eva śrī-guruḥ svāmī sākṣād īśvara eva saḥ // HYP_3.129 // tasya vākya-paro bhūtvā mudrābhyāse samāhitaḥ / aṇimādi-guṇaiḥ sārdhaṃ labhate kāla-vañcanam // HYP_3.130 //
iti haṭha-pradīpikāyāṃ tṛtīyopadeśaḥ /
(4) caturthopadeśaḥ
namaḥ śivāya gurave nāda-bindu-kalātmane / nirañjana-padaṃ yāti nityaṃ tatra parāyaṇaḥ // HYP_4.1 // athedānīṃ pravakṣyāmi samādhikramam uttamam / mṛtyughnaṃ ca sukhopāyaṃ brahmānanda-karaṃ param // HYP_4.2 // rāja-yogaḥ samādhiś ca unmanī ca manonmanī / amaratvaṃ layas tattvaṃ śūnyāśūnyaṃ paraṃ padam // HYP_4.3 // amanaskaṃ tathādvaitaṃ nirālambaṃ nirañjanam / jīvanmuktiś ca sahajā turyā cety eka-vācakāḥ // HYP_4.4 // salile saindhavaṃ yadvat sāmyaṃ bhajati yogataḥ / tathātma-manasor aikyaṃ samādhir abhidhīyate // HYP_4.5 // yadā saṃkṣīyate prāṇo mānasaṃ ca pralīyate / tadā samarasatvaṃ ca samādhir abhidhīyate // HYP_4.6 // tat-samaṃ ca dvayor aikyaṃ jīvātma-paramātmanoḥ / pranaṣṭa-sarva-saṅkalpaḥ samādhiḥ so'bhidhīyate // HYP_4.7 // rāja-yogasya māhātmyaṃ ko vā jānāti tattvataḥ / jñānaṃ muktiḥ sthitiḥ siddhir guru-vākyena labhyate // HYP_4.8 // durlabho viṣaya-tyāgo durlabhaṃ tattva-darśanam / durlabhā sahajāvasthā sad-guroḥ karuṇāṃ vinā // HYP_4.9 // vividhair āsanaiḥ kubhair vicitraiḥ karaṇair api / prabuddhāyāṃ mahā-śaktau prāṇaḥ śūnye pralīyate // HYP_4.10 // utpanna-śakti-bodhasya tyakta-niḥśeṣa-karmaṇaḥ / yoginaḥ sahajāvasthā svayam eva prajāyate // HYP_4.11 // suṣumṇā-vāhini prāṇe śūnye viśati mānase / tadā sarvāṇi karmāṇi nirmūlayati yogavit // HYP_4.12 // amarāya namas tubhyaṃ so'pi kālas tvayā jitaḥ / patitaṃ vadane yasya jagad etac carācaram // HYP_4.13 // citte samatvam āpanne vāyau vrajati madhyame / tadāmarolī vajrolī sahajolī prajāyate // HYP_4.14 //
jñānaṃ kuto manasi sambhavatīha tāvat prāṇo'pi jīvati mano mriyate na yāvat / prāṇo mano dvayam idaṃ vilayaṃ nayed yo mokṣaṃ sa gacchati naro na kathaṃcid anyaḥ // HYP_4.15 //
jñātvā suṣumṇāsad-bhedaṃ kṛtvā vāyuṃ ca madhyagam / sthitvā sadaiva susthāne brahma-randhre nirodhayet // HYP_4.16 // sūrya-candramasau dhattaḥ kālaṃ rātrindivātmakam / bhoktrī suṣumnā kālasya guhyam etad udāhṛtam // HYP_4.17 // dvā-saptati-sahasrāṇi nāḍī-dvārāṇi pañjare / suṣumṇā śāmbhavī śaktiḥ śeṣās tv eva nirarthakāḥ // HYP_4.18 // vāyuḥ paricito yasmād agninā saha kuṇḍalīm / bodhayitvā suṣumṇāyāṃ praviśed anirodhataḥ // HYP_4.19 // suṣumṇā-vāhini prāṇe siddhyaty eva manonmanī / anyathā tv itarābhyāsāḥ prayāsāyaiva yoginām // HYP_4.20 // pavano badhyate yena manas tenaiva badhyate / manaś ca badhyate yena pavanas tena badhyate // HYP_4.21 // hetu-dvayaṃ tu cittasya vāsanā ca samīraṇaḥ / tayor vinaṣṭa ekasmin tau dvāv api vinaśyataḥ // HYP_4.22 // mano yatra vilīyeta pavanas tatra līyate / pavano līyate yatra manas tatra vilīyate // HYP_4.23 //
dugdhāmbuvat saṃmilitāv ubhau tau tulya-kriyau mānasa-mārutau hi / yato marut tatra manaḥ-pravṛttir yato manas tatra marut-pravṛttiḥ // HYP_4.24 //
tatraika-nāśād aparasya nāśa eka-pravṛtter apara-pravṛttiḥ / adhvas tayoś cendriya-varga-vṛttiḥ pradhvas tayor mokṣa-padasya siddhiḥ // HYP_4.25 //
rasasya manasaś caiva cañcalatvaṃ svabhāvataḥ / raso baddho mano baddhaṃ kiṃ na siddhyati bhūtale // HYP_4.26 // mūrcchito harate vyādhīn mṛto jīvayati svayam / baddhaḥ khecaratāṃ dhatte raso vāyuś ca pārvati // HYP_4.27 // manaḥ sthairyaṃ sthiro vāyus tato binduḥ sthiro bhavet / bindu-sthairyāt sadā sattvaṃ piṇḍa-sthairyaṃ prajāyate // HYP_4.28 // indriyāṇāṃ mano nātho manonāthas tu mārutaḥ / mārutasya layo nāthaḥ sa layo nādam āśritaḥ // HYP_4.29 // so'yam evāstu mokṣākhyo māstu vāpi matāntare / manaḥ-prāṇa-laye kaścid ānandaḥ sampravartate // HYP_4.30 // pranaṣṭa-śvāsa-niśvāsaḥ pradhvasta-viṣaya-grahaḥ / niśceṣṭo nirvikāraś ca layo jayati yoginām // HYP_4.31 // ucchinna-sarva-saṅkalpo niḥśeṣāśeṣa-ceṣṭitaḥ / svāvagamyo layaḥ ko'pi jāyate vāg-agocaraḥ // HYP_4.32 // yatra dṛṣṭir layas tatra bhūtendriya-sanātanī / sā śaktir jīva-bhūtānāṃ dve alakṣye layaṃ gate // HYP_4.33 // layo laya iti prāhuḥ kīdṛśaṃ laya-lakṣaṇam / apunar-vāsanotthānāl layo viṣaya-vismṛtiḥ // HYP_4.34 // veda-śāstra-purāṇāni sāmānya-gaṇikā iva / ekaiva śāmbhavī mudrā guptā kula-vadhūr iva // HYP_4.35 //
atha śāmbhavī- antar lakṣyaṃ bahir dṛṣṭir nimeṣonmeṣa-varjitā / eṣā sā śāmbhavī mudrā veda-śāstreṣu gopitā // HYP_4.36 //
antar lakṣya-vilīna-citta-pavano yogī yadā vartate dṛṣṭyā niścala-tārayā bahir adhaḥ paśyann apaśyann api / mudreyaṃ khalu śāmbhavī bhavati sā labdhā prasādād guroḥ śūnyāśūnya-vilakṣaṇaṃ sphurati tat tattvaṃ padaṃ śāmbhavam // HYP_4.37 //
śrī-śāmbhavyāś ca khecaryā avasthā-dhāma-bhedataḥ / bhavec citta-layānandaḥ śūnye cit-sukha-rūpiṇi // HYP_4.38 // tāre jyotiṣi saṃyojya kiṃcid unnamayed bhruvau / pūrva-yogaṃ mano yuñjann unmanī-kārakaḥ kṣaṇāt // HYP_4.39 // kecid āgama-jālena kecin nigama-saṅkulaiḥ / kecit tarkeṇa muhyanti naiva jānanti tārakam // HYP_4.40 //
ardhonmīlita-locanaḥ sthira-manā nāsāgra-dattekṣaṇaś candrārkāv api līnatām upanayan nispanda-bhāvena yaḥ / jyotī-rūpam aśeṣa-bījam akhilaṃ dedīpyamānaṃ paraṃ tattvaṃ tat-padam eti vastu paramaṃ vācyaṃ kim atrādhikam // HYP_4.41 //
divā na pūjayel liṅgaṃ rātrau caiva na pūjayet / sarvadā pūjayel liṅgaṃ divārātri-nirodhataḥ // HYP_4.42 //
atha khecarī- savya-dakṣiṇa-nāḍī-stho madhye carati mārutaḥ / tiṣṭhate khecarī mudrā tasmin sthāne na saṃśayaḥ // HYP_4.43 // iḍā-piṅgalayor madhye śūnyaṃ caivānilaṃ graset / tiṣṭhate khecarī mudrā tatra satyaṃ punaḥ punaḥ // HYP_4.44 // sūrcyācandramasor madhye nirālambāntare punaḥ / saṃsthitā vyoma-cakre yā sā mudrā nāma khecarī // HYP_4.45 // somād yatroditā dhārā sākṣāt sā śiva-vallabhā / pūrayed atulāṃ divyāṃ suṣumṇāṃ paścime mukhe // HYP_4.46 // purastāc caiva pūryeta niścitā khecarī bhavet / abhyastā khecarī mudrāpy unmanī samprajāyate // HYP_4.47 // bhruvor madhye śiva-sthānaṃ manas tatra vilīyate / jñātavyaṃ tat-padaṃ turyaṃ tatra kālo na vidyate // HYP_4.48 // abhyaset khecarīṃ tāvad yāvat syād yoga-nidritaḥ / samprāpta-yoga-nidrasya kālo nāsti kadācana // HYP_4.49 // nirālambaṃ manaḥ kṛtvā na kiṃcid api cintayet / sa-bāhyābhyantaraṃ vyomni ghaṭavat tiṣṭhati dhruvam // HYP_4.50 // bāhya-vāyur yathā līnas tathā madhyo na saṃśayaḥ / sva-sthāne sthiratām eti pavano manasā saha // HYP_4.51 // evam abhyasyatas tasya vāyu-mārge divāniśam / abhyāsāj jīryate vāyur manas tatraiva līyate // HYP_4.52 // amṛtaiḥ plāvayed deham āpāda-tala-mastakam / siddhyaty eva mahā-kāyo mahā-bala-parākramaḥ // HYP_4.53 // śakti-madhye manaḥ kṛtvā śaktiṃ mānasa-madhyagām / manasā mana ālokya dhārayet paramaṃ padam // HYP_4.54 // kha-madhye kuru cātmānam ātma-madhye ca khaṃ kuru / sarvaṃ ca kha-mayaṃ kṛtvā na kiṃcid api cintayet // HYP_4.55 // antaḥ śūnyo bahiḥ śūnyaḥ śūnyaḥ kumbha ivāmbare / antaḥ pūrṇo bahiḥ pūrṇaḥ pūrṇaḥ kumbha ivārṇave // HYP_4.56 // bāhya-cintā na kartavyā tathaivāntara-cintanam / sarva-cintāṃ parityajya na kiṃcid api cintayet // HYP_4.57 //
saṅkalpa-mātra-kalanaiva jagat samagraṃ saṅkalpa-mātra-kalanaiva mano-vilāsaḥ / saṅkalpa-mātra-matim utsṛja nirvikalpam āśritya niścayam avāpnuhi rāma śāntim // HYP_4.58 //
karpūram anale yadvat saindhavaṃ salile yathā / tathā sandhīyamānaṃ ca manas tattve vilīyate // HYP_4.59 // jñeyaṃ sarvaṃ pratītaṃ ca jñānaṃ ca mana ucyate / jñānaṃ jñeyaṃ samaṃ naṣṭaṃ nānyaḥ panthā dvitīyakaḥ // HYP_4.60 // mano-dṛśyam idaṃ sarvaṃ yat kiṃcit sa-carācaram / manaso hy unmanī-bhāvād dvaitaṃ naivolabhyate // HYP_4.61 // jñeya-vastu-parityāgād vilayaṃ yāti mānasam / manaso vilaye jāte kaivalyam avaśiṣyate // HYP_4.62 // evaṃ nānā-vidhopāyāḥ samyak svānubhavānvitāḥ / samādhi-mārgāḥ kathitāḥ pūrvācāryair mahātmabhiḥ // HYP_4.63 // suṣumṇāyai kuṇḍalinyai sudhāyai candra-janmane / manonmanyai namas tubhyaṃ mahā-śaktyai cid-ātmane // HYP_4.64 // aśakya-tattva-bodhānāṃ mūḍhānām api saṃmatam / proktaṃ gorakṣa-nāthena nādopāsanam ucyate // HYP_4.65 //
śrī-ādināthena sa-pāda-koṭi- laya-prakārāḥ kathitā jayanti / nādānusandhānakam ekam eva manyāmahe mukhyatamaṃ layānām // HYP_4.66 //
muktāsane sthito yogī mudrāṃ sandhāya śāmbhavīm / śṛṇuyād dakṣiṇe karṇe nādam antāstham ekadhīḥ // HYP_4.67 //
śravaṇa-puṭa-nayana-yugala- ghrāṇa-mukhānāṃ nirodhanaṃ kāryam / śuddha-suṣumṇā-saraṇau sphuṭam amalaḥ śrūyate nādaḥ // HYP_4.68 //
ārambhaś ca ghaṭaś caiva tathā paricayo'pi ca / niṣpattiḥ sarva-yogeṣu syād avasthā-catuṣṭayam // HYP_4.69 //
atha ārambhāvasthā- brahma-granther bhaved bhedo hy ānandaḥ śūnya-sambhavaḥ / vicitraḥ kvaṇako dehe'nāhataḥ śrūyate dhvaniḥ // HYP_4.70 // divya-dehaś ca tejasvī divya-gandhas tvarogavān / sampūrṇa-hṛdayaḥ śūnya ārambhe yogavān bhavet // HYP_4.71 //
atha ghaṭāvasthā- dvitīyāyāṃ ghaṭīkṛtya vāyur bhavati madhyagaḥ / dṛḍhāsano bhaved yogī jñānī deva-samas tadā // HYP_4.72 // viṣṇu-granthes tato bhedāt paramānanda-sūcakaḥ / atiśūnye vimardaś ca bherī-śabdas tadā bhavet // HYP_4.73 //
atha paricayāvasthā- tṛtīyāyāṃ tu vijñeyo vihāyo mardala-dhvaniḥ / mahā-śūnyaṃ tadā yāti sarva-siddhi-samāśrayam // HYP_4.74 // cittānandaṃ tadā jitvā sahajānanda-sambhavaḥ / doṣa-duḥkha-jarā-vyādhi-kṣudhā-nidrā-vivarjitaḥ // HYP_4.75 // atha niṣpatty-avasthā- rudra-granthiṃ yadā bhittvā śarva-pīṭha-gato'nilaḥ / niṣpattau vaiṇavaḥ śabdaḥ kvaṇad-vīṇā-kvaṇo bhavet // HYP_4.76 // ekībhūtaṃ tadā cittaṃ rāja-yogābhidhānakam / sṛṣṭi-saṃhāra-kartāsau yogīśvara-samo bhavet // HYP_4.77 // astu vā māstu vā muktir atraivākhaṇḍitaṃ sukham / layodbhavam idaṃ saukhyaṃ rāja-yogād avāpyate // HYP_4.78 // rāja-yogam ajānantaḥ kevalaṃ haṭha-karmiṇaḥ / etān abhyāsino manye prayāsa-phala-varjitān // HYP_4.79 // unmany-avāptaye śīghraṃ bhrū-dhyānaṃ mama saṃmatam / rāja-yoga-padaṃ prāptuṃ sukhopāyo'lpa-cetasām / sadyaḥ pratyaya-sandhāyī jāyate nādajo layaḥ // HYP_4.80 //
nādānusandhāna-samādhi-bhājāṃ yogīśvarāṇāṃ hṛdi vardhamānam / ānandam ekaṃ vacasām agamyaṃ jānāti taṃ śrī-gurunātha ekaḥ // HYP_4.81 //
karṇau pidhāya hastābhyāṃ yaḥ śṛṇoti dhvaniṃ muniḥ / tatra cittaṃ sthirīkuryād yāvat sthira-padaṃ vrajet // HYP_4.82 // abhyasyamāno nādo'yaṃ bāhyam āvṛṇute dhvanim / pakṣād vikṣepam akhilaṃ jitvā yogī sukhī bhavet // HYP_4.83 // śrūyate prathamābhyāse nādo nānā-vidho mahān / tato'bhyāse vardhamāne śrūyate sūkṣma-sūkṣmakaḥ // HYP_4.84 // ādau jaladhi-jīmūta-bherī-jharjhara-sambhavāḥ / madhye mardala-śaṅkhotthā ghaṇṭā-kāhalajās tathā // HYP_4.85 // ante tu kiṅkiṇī-vaṃśa-vīṇā-bhramara-niḥsvanāḥ / iti nānāvidhā nādāḥ śrūyante deha-madhyagāḥ // HYP_4.86 // mahati śrūyamāṇe'pi megha-bhery-ādike dhvanau / tatra sūkṣmāt sūkṣmataraṃ nādam eva parāmṛśet // HYP_4.87 // ghanam utsṛjya vā sūkṣme sūkṣmam utsṛjya vā ghane / ramamāṇam api kṣiptaṃ mano nānyatra cālayet // HYP_4.88 // yatra kutrāpi vā nāde lagati prathamaṃ manaḥ / tatraiva susthirībhūya tena sārdhaṃ vilīyate // HYP_4.89 // makarandaṃ piban bhṛṅgī gandhaṃ nāpekṣate yathā / nādāsaktaṃ tathā cittaṃ viṣayān nahi kāṅkṣate // HYP_4.90 // mano-matta-gajendrasya viṣayodyāna-cāriṇaḥ / samartho'yaṃ niyamane nināda-niśitāṅkuśaḥ // HYP_4.91 // baddhaṃ tu nāda-bandhena manaḥ santyakta-cāpalam / prayāti sutarāṃ sthairyaṃ chinna-pakṣaḥ khago yathā // HYP_4.92 // sarva-cintāṃ parityajya sāvadhānena cetasā / nāda evānusandheyo yoga-sāmrājyam icchatā // HYP_4.93 // nādo'ntaraṅga-sāraṅga-bandhane vāgurāyate / antaraṅga-kuraṅgasya vadhe vyādhāyate'pi ca // HYP_4.94 // antaraṅgasya yamino vājinaḥ parighāyate / nādopāsti-rato nityam avadhāryā hi yoginā // HYP_4.95 // baddhaṃ vimukta-cāñcalyaṃ nāda-gandhaka-jāraṇāt / manaḥ-pāradam āpnoti nirālambākhya-khe'ṭanam // HYP_4.96 // nāda-śravaṇataḥ kṣipram antaraṅga-bhujaṅgamam / vismṛtaya sarvam ekāgraḥ kutracin nahi dhāvati // HYP_4.97 // kāṣṭhe pravartito vahniḥ kāṣṭhena saha śāmyati / nāde pravartitaṃ cittaṃ nādena saha līyate // HYP_4.98 // ghaṇṭādināda-sakta-stabdhāntaḥ-karaṇa-hariṇasya / praharaṇam api sukaraṃ syāc chara-sandhāna-pravīṇaś cet // HYP_4.99 // anāhatasya śabdasya dhvanir ya upalabhyate / dhvaner antargataṃ jñeyaṃ jñeyasyāntargataṃ manaḥ / manas tatra layaṃ yāti tad viṣṇoḥ paramaṃ padam // HYP_4.100 // tāvad ākāśa-saṅkalpo yāvac chabdaḥ pravartate / niḥśabdaṃ tat-paraṃ brahma paramāteti gīyate // HYP_4.101 // yat kiṃcin nāda-rūpeṇa śrūyate śaktir eva sā / yas tattvānto nirākāraḥ sa eva parameśvaraḥ // HYP_4.102 //
iti nādānusandhānam
sarve haṭha-layopāyā rājayogasya siddhaye / rāja-yoga-samārūḍhaḥ puruṣaḥ kāla-vañcakaḥ // HYP_4.103 // tattvaṃ bījaṃ haṭhaḥ kṣetram audāsīnyaṃ jalaṃ tribhiḥ / unmanī kalpa-latikā sadya eva pravartate // HYP_4.104 // sadā nādānusandhānāt kṣīyante pāpa-saṃcayāḥ / nirañjane vilīyete niścitaṃ citta-mārutau // HYP_4.105 // śaṅkha-dundhubhi-nādaṃ ca na śṛṇoti kadācana / kāṣṭhavaj jāyate deha unmanyāvasthayā dhruvam // HYP_4.106 // sarvāvasthā-vinirmuktaḥ sarva-cintā-vivarjitaḥ / mṛtavat tiṣṭhate yogī sa mukto nātra saṃśayaḥ // HYP_4.107 // khādyate na ca kālena bādhyate na ca karmaṇā / sādhyate na sa kenāpi yogī yuktaḥ samādhinā // HYP_4.108 // na gandhaṃ na rasaṃ rūpaṃ na ca sparśaṃ na niḥsvanam / nātmānaṃ na paraṃ vetti yogī yuktaḥ samādhinā // HYP_4.109 // cittaṃ na suptaṃ nojāgrat smṛti-vismṛti-varjitam / na cāstam eti nodeti yasyāsau mukta eva saḥ // HYP_4.110 // na vijānāti śītoṣṇaṃ na duḥkhaṃ na sukhaṃ tathā / na mānaṃ nopamānaṃ ca yogī yuktaḥ samādhinā // HYP_4.111 // svastho jāgrad avasthāyāṃ suptavad yo'vatiṣṭhate / niḥśvāsocchvāsa-hīnaś ca niścitaṃ mukta eva saḥ // HYP_4.112 // avadhyaḥ sarva-śastrāṇām aśakyaḥ sarva-dehinām / agrāhyo mantra-yantrāṇāṃ yogī yuktaḥ samādhinā // HYP_4.113 //
yāvan naiva praviśati caran māruto madhya-mārge yāvad vidur na bhavati dṛḍhaḥ prāṇa-vāta-prabandhāt / yāvad dhyāne sahaja-sadṛśaṃ jāyate naiva tattvaṃ tāvaj jñānaṃ vadati tad idaṃ dambha-mithyā-pralāpaḥ // HYP_4.114 //
iti haṭha-yoga-pradīpikāyāṃ samādhi-lakṣaṇaṃ nāma caturthopadeśaḥ /